Enter your Email Address to subscribe to our newsletters
रायपुरम्, 23 सितंबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवः सायः बुधवासरे २४ सितम्बर् दिने राजधानीरायपुरे वी.आइ.पी.-मार्गस्थिते ओ–माया गार्डन् इत्यस्मिन् स्थले उद्योगविभागेन निवेशकान् आह्वयितुं आयोजिते छत्तीसगढ् केयर् कनेक्ट् कार्यक्रमस्य शुभारम्भं करिष्यति। अस्मिन् अवसरि वाणिज्य-उद्योगमन्त्री लखनलालः देवाङ्गन्, वित्तमन्त्री ओ.पी. चौधरी, स्वास्थ्य-परिवारकल्याणमन्त्री श्यामबिहारी जयस्वालः, पर्यटन-संस्कृतिमन्त्री राजेशः अग्रवालः, सी.एस्.आइ.डी.सी.-अध्यक्षः राजीवः अग्रवालः च उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार