कर्मचारिभविष्यनिधिसंघटनं जुलाईमासे 21.04 लक्षं युक्ताः नूतनसदस्याः
नवदिल्‍ली, 23 सितंबरमासः (हि.स)। कर्मचारिभविष्यनिधिसंघटनं (EPFO) जुलाईमासे शुद्धतया २१.०४ लक्षसदस्यानां संयोजनं कृतवत्। अत्र वार्षिक आधारस्य ५.५५ प्रतिशत वृद्धिः दृष्टा। EPFO जुलाई २०२५ मध्ये शुद्धतया ९.७९ लक्षानां नवानां सदस्यानां संयोजनंकृतवत्। ए
कर्मचारी भविष्य निधि संगठन के लोगो का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 23 सितंबरमासः (हि.स)।

कर्मचारिभविष्यनिधिसंघटनं (EPFO) जुलाईमासे शुद्धतया २१.०४ लक्षसदस्यानां संयोजनं कृतवत्। अत्र वार्षिक आधारस्य ५.५५ प्रतिशत वृद्धिः दृष्टा।

EPFO जुलाई २०२५ मध्ये शुद्धतया ९.७९ लक्षानां नवानां सदस्यानां संयोजनंकृतवत्। एतेषु १८–२५ आयुवर्गे ५.९८ लक्षाः युवाः सन्ति, यः समग्रनवानां ग्राहकमध्ये ६१.०६ प्रतिशतं। अस्मिन वर्गे शुद्ध पेरोलवृद्धिः ९.१३ लक्षमिता आसीत्।

श्रम रोजगार मंत्रालयस्य तथ्यैः ज्ञायते यत् EPFO सदस्याः अंतिमनिपटने अपेक्षया EPF खातायां निधिं स्थानान्तरीकृत्वा सामाजिकसुरक्षा रक्षणं प्राधान्यं दत्तवन्तः। तथ्यानुसारं पूर्वं कर्मत्यक्ताः लगभग १६.४३ लक्षाः पुरातनसदस्याः जुलाईमासे पुनः EPFO सह संलग्नाः। अस्मिन् वार्षिक आधारस्य १२.१२ प्रतिशत वृद्धिः अभवत्।

जुलाईमासे २.८० लक्षनवानि महिला सदस्याः संलग्नाः, यस्मात् समग्र महिला शुद्धपेरोलवृद्धिः लगभग ४.४२ लक्षम् अभवत्। एषा वार्षिक आधारस्य ०.१७ प्रतिशत वृद्धिं दर्शयति, या कार्यबलस्य वर्धमानविविधतां सूचयति।

वेतनभुगतानतथ्यानां राज्यशो विश्लेषणं दर्शयति यत् शीर्षपञ्च राज्यानि/केंद्रशासितप्रदेशाः कुलवेतने लगभग ६०.८५ प्रतिशत वृद्धिं कृतवन्तः, यस्मिन् जुलाईमासे आहत्य प्रायेण१२.८० लक्षमितं वेतनभुगतानं संलग्नम्। जुलाईमासे समस्तराज्येषु महाराष्ट्रं २०.४७ प्रतिशतं कुलवेतनं योज्य अग्रे स्थितम्।

मंत्रालयानुसारं EPFO पेरोलतथ्यम् अस्थायि इति, यतः कर्मचारीणां अभिलेखस्य अद्यतनकरणप्रक्रिया निरन्तरं प्रवर्तते। कर्मचारिभविष्यनिधिसंगठनं सितम्बर २०१७ आरभ्य मासिकआधारेण एते तथ्याङ्काः प्रकाशितवत्।

---------------

हिन्दुस्थान समाचार