देहल्यां २६-२७ सितम्बरदिनाङ्के “वैश्विकखाद्यनियामकसम्मेलनः” भविष्यति। नड्डा इत्यनेन लोगो-चिह्नं पुस्तिकां च विमोचिते
नवदेहली, 23 सितंबरमासः (हि.स.)। भारतीय-खाद्य-सुरक्षा-मानक-प्राधिकरणेन (एफ्एस्एस्एआइ) २६-२७ सितम्बर-दिनांकेषु अत्र भारत-मण्डपम्नाम स्थले “वैश्विक-खाद्य-नियामक-सम्मेलनः” आयोज्यते। अस्याः अवसरस्य प्रसङ्गे स्वास्थ्य-परिवार-कल्याणमन्त्री जगत्प्रकाश-नड्डा
केन्द्रीय स्वास्थ्य मंत्री जे पी नड्डा लोगो और पुस्तिका जारी करते हुए


नवदेहली, 23 सितंबरमासः (हि.स.)। भारतीय-खाद्य-सुरक्षा-मानक-प्राधिकरणेन (एफ्एस्एस्एआइ) २६-२७ सितम्बर-दिनांकेषु अत्र भारत-मण्डपम्नाम स्थले “वैश्विक-खाद्य-नियामक-सम्मेलनः” आयोज्यते। अस्याः अवसरस्य प्रसङ्गे स्वास्थ्य-परिवार-कल्याणमन्त्री जगत्प्रकाश-नड्डा इत्यनेन निर्माण-भवने सम्मेलनस्य लोगो-चिह्नं पुस्तिकां च विमोचिते। अस्य आयोजनस्य दायित्वं एफ्एस्एस्एआइ स्वास्थ्य-परिवारकल्याणमन्त्रालयस्य च अधिपत्ये भवति। एषः कार्यक्रमः World Food India २०२५ इत्यनेन सह समकालीनरूपेण भविष्यति।

नड्डा-महाभागेन अस्मिन् अवसरे उक्तं यत् अस्य वर्षस्य जीएफ्आरएस् (GFRS) इत्यस्य विषयः “परिवर्तमानेषु खाद्य-व्यवहारेषु—यथा अन्नं तथा मनः” इत्यस्ति, यः भोजनस्य गुणवत्तां मनसः समाजस्य च स्वास्थ्येन सह गाढं सम्बन्धं सूचयति। तेनोक्तं— “भोजनं केवलं पोषणं न, अपि तु शारीरिक-स्वास्थ्यस्य, मानसिक-समतोलस्य, भावनात्मक-दृढत्वस्य, सामाजिक-सौहार्दस्य च अपि मूलं भवति।” एफ्एस्एस्एआइ-मन्त्रालययोः च योगदानस्य प्रशंसा कृत्वा नड्डा इत्यनेन उक्तं यत् खाद्य-सुरक्षा-मानकाः बहुमुखेन दृष्टिकेण निरन्तरं परिष्कर्तव्याः। परिवर्तमानेषु खाद्य-व्यवहारेषु विपन्यां च अनुरूपं मानकनियमविनियमाः समयसमये अद्यतनं करणीयम्। खाद्य-नियामकाः सदा सजगाः सक्रियाश्च भविष्यन्ति। एषः मञ्चः वैश्विक-नियामकेभ्यः विचारविनिमयस्य, मानकसमन्वयस्य, संकटमूल्यांकनक्षमतायाः संवर्धनस्य, खाद्य-सुरक्षायां च प्रौद्योगिक-प्रगतिः विषये चर्चायाः च अवसरं दास्यति।

सम्मेलनस्य समये एफ्एस्एस्एआइ इत्यनेन Eat Right Thali इत्याख्या पुस्तकापि विमोक्ष्यते, या भारतस्य विविध-भोजन-परम्परां संतुलित-आहारं च प्रकाशयति। जीएफ्आरएस् २०२५ मध्ये अन्तर्राष्ट्रीय-संस्थाः वैज्ञानिकाश्च विशेष-व्याख्यानानि दास्यन्ति, तत्र तांत्रिकपूर्णसत्राणि, राष्ट्रीय-अन्तर्राष्ट्रीयहितधारकैः सह संवादः, द्विपक्षीयबहुपक्षीय-मेलनानि च भविष्यन्ति। अष्टभिः पूर्ण-सत्रैः उच्चस्तरीयसमांतर-सम्वादैः च युक्तं एतत् सम्मेलनं खाद्य-सुरक्षा-विनियमनस्य भविष्य-दर्शी-पहलून् प्रकाशयिष्यति। एषः तृतीयः सततं संस्करणः यः एफ्एस्एस्एआइ इत्यनेन आयोज्यते। पूर्वयोः द्वयोः संस्करणयोः सफलतायाः आधारात् भारतं अधुना वैश्विकखाद्यसुरक्षा-उपक्रमाणां नियामकसम्वादस्य च केन्द्रं जातम्।

अस्मिन्नवसरे एफ्एस्एस्एआइ-सम्स्थायाः मुख्य-कार्यपालकः राजितपुनहानी, स्वास्थ्य-मन्त्रालयस्य संयुक्त-सचिवः निखिलगजराजः इत्यादयः वरिष्ठ-अधिकारिणः अपि उपस्थिताः आसन्।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता