पीएमजेएवाई योजनायाः 7 वर्षाणि सम्पन्नानि 55 कोट्यधिकेभ्यः जनेभ्यः लाभः प्राप्तः
नवदेहली, 23 सितम्बरमासः (हि.स.)। आयुष्मानभारत-प्रधानमन्त्रीजनआरोग्ययोजना (पीएमजेएवाई) अद्य सप्तवर्षाणि पूर्णानि । एषः जगतः महान्तमा सर्वकारी-वित्तपोषिता स्वास्थ्यबीमायोजना अस्ति, या प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽरभ्य आसीत्। अस्याः योजनायाः अन्तर्गतं
भाजपा अध्यक्ष जे पी नड्डा


नवदेहली, 23 सितम्बरमासः (हि.स.)। आयुष्मानभारत-प्रधानमन्त्रीजनआरोग्ययोजना (पीएमजेएवाई) अद्य सप्तवर्षाणि पूर्णानि । एषः जगतः महान्तमा सर्वकारी-वित्तपोषिता स्वास्थ्यबीमायोजना अस्ति, या प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽरभ्य आसीत्। अस्याः योजनायाः अन्तर्गतं यावत् 55 कोट्यधिकेभ्यः जनानां लाभः प्राप्तः अस्ति।

मङ्गलवासरे केन्द्रीयस्वास्थ्यमन्त्री जेपी नड्डा एक्स्-नामके सामाजिकमाध्यमे स्वसन्देशे अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विकसितस्य आत्मनिर्भरस्य भारतस्य संकल्पसिद्धौ “आयुष्मानभारत-प्रधानमन्त्रीजनआरोग्ययोजना” नाम्नी आरोग्यक्रान्तिः जगति स्वास्थ्यसेवायाः आदर्शरूपेण प्रतिष्ठिता अस्ति।

सः अवदत् यत् स्वास्थ्यक्षेत्रेऽस्मिन् महत्त्वाकाङ्क्षायाः योजनायाः सफलाः सप्तवर्षाः देशवासिभ्यः उत्तमानि स्वास्थ्यसुविधानि दातुं मोदिसर्वकारस्य प्रतिबद्धतां दर्शयन्ति।

अस्या योजनायाः अन्तर्गतं 70 वर्षाधिकवयस्कः प्रत्येकः नागरिकः, तस्य सामाजिक-आर्थिकावस्था यथाभवतु, सार्वभौमिकस्वास्थ्यकवरेजेन संरक्षितः भवति। सा योजना परिवाराणां सत्यः बान्धवः इव आसीत्, या तान् तेषां कठिनतमेषु कालेषु आश्रयं दत्तवती।

जेपी नड्डा अवदत् — “स्वस्थः भारतः, विकसितः भारतः” इत्यस्य दृष्टेः साकारतायाः कुंजी अस्ति। देशे 1.8 लक्षाधिकेषु आयुष्मान-आरोग्यमन्दिरेषु स्थापितेषु, अस्याः पहलायाः द्वारा स्वास्थ्यसेवायाः नूतना परिभाषा दत्ता, असमानताः निवारिताः, लक्षाधिकेभ्यः जनानां प्रति सुरक्षितं, विश्वसनीयं, सम्मानितं च स्वास्थ्यसेवानां प्राप्यत्वं प्रदत्तम्।

उल्लेखनीयम् यत् आयुष्मानभारत-प्रधानमन्त्रीजनआरोग्ययोजना (पीएमजेएवाई) भारतसर्वकारस्य परिवर्तनकारी स्वास्थ्यबीमा-पहल अस्ति, यस्य उद्देश्यः आर्थिकदुर्बलवर्गेभ्यः वित्तीयसुरक्षा सुलभस्वास्थ्यसेवा च प्रदातुम् अस्ति। एषा योजना 10 कोट्यधिकपरिवारान् आवृणोति, प्रतिपरिवारं प्रतिवर्षं 5 लक्षरूप्यकपर्यन्तं चिकित्सालयनिवेशनकवरेजं ददाति। एतेन राष्ट्रव्यापिनि 7 सहस्राधिकेषु अनुबद्धेषु चिकित्सालयेषु नकदरहितोपचारः सुनिश्चितः भवति।

अस्याः लाभाः —

प्रतिपरिवारं प्रतिवर्षं 5 लक्षरूप्यकपर्यन्तं कवरेजः,

राष्ट्रव्यापिनि 7 सहस्राधिकेषु अनुबद्धेषु चिकित्सालयेषु नकदरहितोपचारः,

द्वितीयक-तृतीयक-चिकित्सालयनिवेशनव्ययस्य आच्छादनं च सम्मिलितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता