71 तम: राष्ट्रीयचलच्चित्रपुरस्कारसमारोहः अद्य, राष्ट्रपतिः विजेतॄन् सम्मानयिष्यति
नवदेहली, 23 सितम्बरमासः (हि.स.)। 71 तमः राष्ट्रीयचलच्चित्रपुरस्कारविजेतॄन् अद्य विज्ञानभवने आयोजिते समारोह एव सम्मानयिष्यन्ति। राष्ट्रपतिः द्रौपदीमुर्मु विजेतॄन् सम्मानयिष्यति। जवान इति चलचित्रस्य कृते शाहरुखखानः, 12 वीं फेल् इति चलचित्रस्य कृते विक्
राष्ट्रपति द्रौपदी मुर्मु


नवदेहली, 23 सितम्बरमासः (हि.स.)। 71 तमः राष्ट्रीयचलच्चित्रपुरस्कारविजेतॄन् अद्य विज्ञानभवने आयोजिते समारोह एव सम्मानयिष्यन्ति। राष्ट्रपतिः द्रौपदीमुर्मु विजेतॄन् सम्मानयिष्यति। जवान इति चलचित्रस्य कृते शाहरुखखानः, 12 वीं फेल् इति चलचित्रस्य कृते विक्रान्तमैसी च सर्वश्रेष्ठनटपुरस्कारं प्राप्स्यतः। मिसेज् चटर्जी वर्सेस् नॉर्वे इत्यस्मिन् चलचित्रस्य कृते रानीमुखर्जी सर्वश्रेष्ठनटी सम्मानं प्राप्स्यति। तस्मिन्नेव समारोहे मलयालं चलचित्राणां प्रसिद्धनटः मोहनलालः दादासाहेबफाल्के-सम्मानं लप्स्यते।

संवत्सरस्य 2023 राष्ट्रियचलच्चित्रपुरस्कारविजेतॄणां एषा घोषणा वर्षस्य अगस्तमासस्य प्रथमदिवसे अभवत्। कोरोनामहामार्याः कारणात् राष्ट्रियचलच्चित्रपुरस्काराः द्विसंवत्सरविलम्बेन दत्ताः भवन्ति।

राष्ट्रियचलच्चित्रपुरस्कारविजेतॄन् विज्ञानभवने भव्ये आयोजिते आयोजने सम्मानयिष्यन्ति। कार्यक्रमः सायं 4 वादने आरभ्यते, यत्र राष्ट्रपतिः द्रौपदी मुर्मु विजेतॄन् सम्मानयिष्यति। तया सह सूचना-प्रसारणमन्त्री अश्विनी वैष्णवः अपि उपस्थितः भविष्यति। दूरदर्शन-यूट्यूब-माध्यमनां माध्यमेन एषः कार्यक्रमः प्रत्यक्षप्रसारणेन द्रष्टुं शक्यते।

विशेषपुरस्काराः

सर्वश्रेष्ठनिर्देशनम् — द केरल स्टोरी कृते सुदीप्तो सेन

सर्वश्रेष्ठनटः — जवान कृते शाहरुखखानः, द्वादशी फेल् इत्यस्याः कृते विक्रान्तमैसी

सर्वश्रेष्ठनटी — मिसेज् चटर्जी वर्सेस् नॉर्वे कृते रानीमुखर्जी

सर्वश्रेष्ठहिन्दीचलच्चित्रम् — कटहल इति

सर्वश्रेष्ठलोकप्रियचलच्चित्रम् — रॉकी तथा रानी की प्रेमकथा इति

दादासाहेबफाल्के-सम्मानः — मलयालं चलचित्रेषु सुप्रसिद्धः नटः मोहनलालः

उल्लेखनीयम् यत् राष्ट्रियचलच्चित्रपुरस्कारेषु स्वर्णकमलः रजतकमलः च सम्मिलितौ स्तः। दादासाहेबफाल्के-अवॉर्ड् इत्यस्मिन् स्वर्णकमलः, 10 लक्षरूप्यकाणि, प्रशस्तिपत्रम्, उत्तरीयः च प्रदत्तः भवति।

सर्वश्रेष्ठफीचरचलच्चित्रम् — स्वर्णकमलः, 2.5 लक्षरूप्यकाणि, प्रशस्तिपत्रं च।

रजतकमलः, 1.5 लक्षरूप्यकाणि — पुरस्कारराशिः।

सामाजिकविषयेषु सर्वोत्तमचलच्चित्रम् — रजतकमलः, 1.5 लक्षरूप्यकाणि।

सर्वश्रेष्ठबालचलच्चित्रम् — स्वर्णकमलः, 1.5 लक्षरूप्यकाणि।

सर्वश्रेष्ठचलच्चित्रम् — रजतकमलः, 1 लक्षरूप्यकाणि।

सर्वश्रेष्ठनट-नटी — रजतकमलः, 50 सहस्ररूप्यकाणि।

हिन्दुस्थान समाचार / अंशु गुप्ता