कोलकातानगरे रात्रौ निरंतर मूसलाधार वर्षामध्ये जनजीवनम् अस्त-व्यस्तं जातम्
कोलकाता, 23 सितम्बरमासः (हि.स.)। कोलकाताप्रदेशे चतुर्दिक् प्रदेशेषु च रात्रौ समभवद् तीव्रा वर्षा, यस्यां मध्ये मंगलवारस्य प्रातःकाले विविधानि स्थानेषु विद्युताघातेन पञ्चजनाः मृत्युमुपगता:। सोमवासररात्रेः सततम् अभूत् वर्षायाः कारणेन सामान्यजीवनम् अव्य
बारिश


कोलकाता, 23 सितम्बरमासः (हि.स.)। कोलकाताप्रदेशे चतुर्दिक् प्रदेशेषु च रात्रौ समभवद् तीव्रा वर्षा, यस्यां मध्ये मंगलवारस्य प्रातःकाले विविधानि स्थानेषु विद्युताघातेन पञ्चजनाः मृत्युमुपगता:। सोमवासररात्रेः सततम् अभूत् वर्षायाः कारणेन सामान्यजीवनम् अव्यवस्थितं जातम्, बहुषु स्थानेषु मार्गाः अपि जलावृताः अभवन्। पथेषु जलसम्पूर्णत्वात् रेलयान–मेट्रोरैलयानयोः च सञ्चारः बाधितः आसीत्।

प्राप्तवार्तानुसारं नेताजी–नगरप्रदेशे कश्चन सायकलयानारूढः निधनं प्राप्तः। सः व्यवसायेन फलविक्रेता आसीत्, सः मंगलवारस्य प्रातःकाले सञ्चिते जले सायकलम् आरुह्य गच्छन् आसीत्। सहसा तस्य संतुलनं नष्टम्, सः मार्गस्य पार्श्वे स्थितं विद्युत्खम्भं स्पृष्टवान्। तत्क्षणे एव तस्य मृत्युः जातः। दीर्घकालपर्यन्तं तस्य मृतदेहः जले एव स्थितः। प्रदेशे जातस्य शॉर्टसर्किटस्य कारणेन अग्निशमनसेवकाः अपि अन्तः प्रविष्टुं न शेकुः। तं दृष्ट्वा त्वरितं सीईएससी–संस्थायै विद्युत्प्रवाहस्य विच्छेदाय सूचनां प्रदत्ता।

एवमेव कालिकापुरे, गडियाहाटप्रदेशस्य बालीगंज–प्लेस् इत्यत्र, बिनियापुकुरप्रदेशे च विद्युताघातेन त्रयः मृत्युमुपगताः। एकबालपुर–थानाक्षेत्रे च मंगलवारस्य प्रातःकालसमये पञ्चवादने त्रिंशत्मिनिटे (५:३०) जितेन्द्र–सिंह नामकः षष्टिवर्षीयः विद्युताघातेन पीडितः। तं त्वरितं एस्.एस्.केम्. चिकित्सालये नीतः, यत्र चिकित्सकैः मृत घोषितः।

अस्यां दुर्घटनायां प्रति केन्द्रस्य शिक्षाराज्यमन्त्री सुकान्त–मजूमदार महोदयः गहनं शोकम् व्यक्तवान्। सः सामाजिकमाध्यमे लेखित्वा उक्तवान् यत्, कोलकाता–प्रदेशे चतुर्दिक् क्षेत्रेषु विद्युताघातेन जाताः बहवः मृत्यवः मां अत्यन्तं शोकितवन्ति। सः राज्यसरकारं प्रति आह्वानम् अकरोत् यत् प्रभावितकुटुम्भेभ्यः त्वरितं साहाय्यं दातव्यम्।

एतस्मिन् मध्ये सीईएससी–संस्था अपि जनान् प्रति निवेदनं कृतवती यत्, यत्र यत्र जलजमावः, तत्र विद्युत्खम्भेभ्यः, पिलर–पेटिकाभ्यः, तारभ्यः च दूरम् एव तिष्ठन्तु। आपदावस्थायां साहाय्याय जनाः ०३३–३५०१–१९१२ इति सङ्ख्यायां सम्पर्कं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता