Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 23 सितंबरमासः (हि.स.)।उत्तराखण्डे धामी–सरकारायाः मन्त्रिपरिषद्–उपवेशने गृहीतानि प्रमुख–निर्णयाः।
उत्तराखण्डराज्ये मङ्गलवासरे धामी–सर्वकारस्य मन्त्रिपरिषद्–सभा सम्पन्ना। अस्मिन् सभासु राज्य–शैक्षिक–अनुसन्धान–प्रशिक्षण–परिषद् मध्ये पीएमई–चैनलानां संचालनाय अष्ट पदानां स्वीकृतिः कृताऽभूत्।
मुख्यमन्त्रिणः पुष्करसिंहधामेः अध्यक्षतायाम् सम्पन्नायां मन्त्रिपरिषद्–सभायाम् उक्त परिषद् मध्ये अष्ट पदानां (संयुक्त–निदेशकः १, उप–निदेशकः १, सहायक–निदेशकः १, प्रवक्ता–चैनल–समन्वयकः १, स्टूडियो–इञ्जीनियरः १, स्टूडियो–तांत्रिक–सहायकः १, सङ्गणक–सञ्चालकः १, एम.टी.एस. १) सृजनम् अनुमोदितम्। एषां कर्मकाराणां मानदेयरूपेण वार्षिकं व्ययभारः दशलक्ष–षट्पञ्चाशदधिक–सहस्र–रूप्यकाणि आकलितः। परिषद् वर्तमानसमये पीएमई–विद्या–कार्यक्रमस्य अन्तर्गतं पञ्च निःशुल्क–शैक्षिक–टीवी–चैनलानां प्रसारणं करोति। सुचारुरूपेण कार्यक्रमसंचालनाय व्यवस्थित–स्टूडियो–निर्माणं च निर्णयितम्।
प्रधानमन्त्री–आवास–योजनान्तर्गतं उधमसिंहनगरजिलायाः रुद्रपुर–तहसीलस्थे बागवालाग्रामे निम्न–आय–वर्गीयजनानां कृते १८७२ किफायती–आवासानां निर्माणं प्रवर्तमानम् अस्ति। परिषद्–गोष्ठ्याम् अयं निर्णयः कृतः यत् परियोजनायाः विशेषतानां परिवर्तनतः उत्पन्नः २७ कोटि ८५ लक्ष ०७ सहस्र–रूप्यकाणां व्ययभारः राज्य–सर्वकारेण वहनीयः।
उत्तराखण्ड–महक–क्रान्ति–नीतिः २०२६–२०३६ इत्यस्य अनुमोदनं कृतम्। अस्याः नीत्याः प्रथमचरणे ९१ सहस्र–लाभार्थिभिः २२,७५० हेक्टेयर–भूमिः सुगन्ध–फसलाभिः आच्छादनीया। नीत्याः अन्तर्गतं कृषकाणां कृते १ हेक्टेयर–पर्यन्तं ८०% अनुदानं, ततः परं ५०% अनुदानं च प्रदेयम्।
मौलिक–शिक्षा–विभागम् सम्बन्ध्य उच्चतम–न्यायालयस्य निर्णयानुसारं उत्तराखण्ड–राजकीय–प्रारम्भिक–शिक्षा (अध्यापक) (संशोधन)–सेवा–नियमावली मध्ये विशेष–आवश्यकता–बालकानां शिक्षायै प्राथमिक–विद्यालयेषु सहायक–अध्यापक (विशेष–शिक्षा) पदस्य प्रावधानं स्वीकृतम्। सहायक–अध्यापक–प्राथमिक–पदाय नियुक्त्याः अर्हतायामपि एन.आई.ओ.एस. संस्थया सप्टेम्बर् २०१७–मार्च् २०१९ मध्ये प्रदत्तं दूरस्थ–डी.एल्.एड्–प्रशिक्षणम् सम्मिलितम्।
समाज–कल्याण–विभागस्य दिव्याङ्ग–युवक–युवत्याः विवाहे विवाह–प्रोत्साहन–अनुदान–योजना अन्तर्गतं दम्पत्यै प्रदेयं सहाय्यमूल्यं २५ सहस्र–रूप्यकात् ५० सहस्र–रूप्यकं पर्यन्तं वृद्धीकृतम्।
तदनन्तरं उत्तराखण्ड–कारागार–प्रशासन–सुधार–सेवा–विभागस्य पुनर्गठनं कृत्वा नूतन–पदानि (महिला–प्रधान–बन्दीरक्षक २, महिला–बन्दीरक्षक २२, अपर–महानिरीक्षकः १, रेसिडेण्ट्–मेडिकल–अफिसरः १, वैयक्तिक–सहायकः १) स्वीकृतानि। कारागार–मुख्यालये स्वच्छकारः, मालिन्, अधीनस्थ–कारागारेषु नाई–स्वच्छकारादीनां सेवाः अपि आउटसोर्स्–प्रणाल्या ग्रहणीयाः इति निर्णयः कृतः।
हिन्दुस्थान समाचार