ज़ुबीन गर्गस्य अंतिम यात्रायां श्मशान स्थले प्रशंसकानां महान् सम्मर्दः
गुवाहाटी, 23 सितंबरमासः (हि.स.)। असमप्रदेशस्य प्रसिद्धः पार्श्वगायकः अभिनेता च जुबीन् गर्ग् इत्यस्य पार्थिवशरीरं अद्य अर्जुन-भोगेश्वर-बरुवा-क्रीडापरिसरात् प्रायः विंशतिः किलोमीट्रदूरं कमारकुची-एनसी-ग्रामे स्थितं श्मशानस्थलं प्रति नीतम्, यः तस्य अन्त्
असम की महान हस्ती जुबीन गर्ग की अंतिम यात्रा का दृश्य।


गुवाहाटी, 23 सितंबरमासः (हि.स.)। असमप्रदेशस्य प्रसिद्धः पार्श्वगायकः अभिनेता च जुबीन् गर्ग् इत्यस्य पार्थिवशरीरं अद्य अर्जुन-भोगेश्वर-बरुवा-क्रीडापरिसरात् प्रायः विंशतिः किलोमीट्रदूरं कमारकुची-एनसी-ग्रामे स्थितं श्मशानस्थलं प्रति नीतम्, यः तस्य अन्त्ययात्रायाः अन्तिमः चरणः अभवत्।

गर्गस्य अन्त्ययात्रा क्रीडापरिसरात् आरब्धा, यस्मिन् लक्षसंख्या प्रशंसकाः, शुभचिन्तकाः, विख्यातपुरुषाश्च सम्मिलिताः आसन्। गुवाहाटी-चिकित्सालये द्वितीयं मरणोत्तरपरीक्षणं कृतं तस्य पार्थिवशरीरं क्रीडापरिसरं प्रति आनयितम्। ततः पारम्परिकेन असमीय-‘गामोच्छेन’ आच्छादितं काचकुटिलके निवेश्य स्थापितम्।

शवः पुष्पैः सुशोभितया एम्बुलेन्स्-याने आनीतः, यस्य उपरि गायकस्य महद् श्वेतकृष्णचित्रं निवेशितम्। तस्य पञ्चाशीतिवर्षीयः पिता पत्नी च गरिमा सैकिया नाम्नी परिवारसहितं पृथक्-वाहनेषु अनुगता आस्ताम्। अनन्तरं प्रशंसकाः शुभचिन्तकाः च श्रद्धाञ्जलिं ददातः शवयात्रां सह गच्छन्तः आसन्। गर्गस्य राजकीयसम्मानपूर्वकं अन्त्यसंस्कारः करणीयः इति सर्वं सज्जीकृतम्।

-------------

हिन्दुस्थान समाचार