Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 24 सितंबरमासः (हि.स.)। केन्द्रीयमन्त्रिमण्डलेन बुधवारे देशस्य राजकीयचिकित्साकलाशालासु ५,०२३ एम्.बी.बी.एस्. तथा ५,००० स्नातकोत्तरस्थानानां (पी.जी.) विस्तारः अनुमोदितः। अस्य विस्तारस्य अनुमानितव्ययः प्रत्येकं स्थानं प्रति १.५ कोटिरूप्यकाणि भविष्यन्ति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां सम्पन्नायां मन्त्रिमण्डलसभायां एतत्सम्बद्धः प्रस्तावः अनुमोदितः। केन्द्रीयसञ्चारप्रसारणमन्त्री अश्विनीवैष्णवः राष्ट्रीयमाध्यमकेन्द्रे आयोजितायां पत्रकारपरिषदायां मन्त्रिमण्डलनिर्णयानां विवरणं दत्तवान्। तेन उक्तम्—एषा पहलः केन्द्रीयप्रायोजितयोजनायाः (सी.एस्.एस्.) तृतीयपदे विस्ताररूपेण क्रियते।
योजनायाः कुलवित्तीयभारः २०२५-२६ तः २०२८-२९ पर्यन्तं १५,०३४.५० कोटिरूप्यकाणि भविष्यन्ति, यस्मिन् केन्द्रस्य अंशः १०,३०३.२० कोटिरूप्यकाणि, राज्येषां तु ४,७३१.३० कोटिरूप्यकाणि।
अधुना देशे ८०८ चिकित्साकलाशालाः सन्ति, यासु कुलं १,२३,७०० एम्.बी.बी.एस्. स्थानानि विद्यन्ते। गतदशवर्षे ६९,३५२ नूतनानि एम्.बी.बी.एस्. स्थानानि, ४३,०४१ स्नातकोत्तरस्थानानि च जोडितानि।
प्रधानमन्त्रीस्वास्थ्यसुरक्षायोजनायाः अन्तर्गतं २२ नूतनानि अखिलभारतीयानि आयुर्विज्ञानसंस्थानानि उच्चस्तरीयतृतीयकस्वास्थ्यसेवाः प्रदास्यन्ति, अत्याधुनिकशिक्षणसुविधाभिः दक्षान् स्वास्थ्यविशेषज्ञान् निर्मास्यन्ति च।
स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य कथनम्—एषा पहलः देशे स्वास्थ्यसेवानां व्यापकं गुणवत्तासम्पन्नं च प्रवेशं सुनिश्चितुं सरकारायाः प्रतिबद्धतां अधिकं दृढयिष्यति।
---------------
हिन्दुस्थान समाचार