Enter your Email Address to subscribe to our newsletters
२४४ कोटिमूल्यस्य निर्माणकार्याणां लोकार्पणं भूमिपूजनञ्च भविष्यति।
भोपालम्, २४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवारे धानं उपार्जयन्ते कृषकाणां बालाघाट्-जनपदस्य तहसील-मुख्यालये कटंगी इत्यस्मिन् स्थले महतीं सौगातं प्रदास्यन्ति।
मुख्यमन्त्रिणा डॉ. यादवेन समर्थन-मूल्ये धानं विक्रयन्ते कृषकाणां प्रति हेक्टेयर ४००० रूप्यकाणि अतिरिक्तं दातुं घोषणा कृता। अस्य घोषणायाः पालनार्थं बालाघाट्-जनपदस्य तहसील-मुख्यालये कटंगी स्थले समर्थन-मूल्ये धानं विक्रयन्ते कृषकाणां अतिरिक्तवितरणाय राज्य-स्तरीय कार्यक्रमः अद्य (बुधवारे) आयोज्यते।
कृषि-उपज-मण्डी प्राङ्गणे अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ. यादवः समर्थन-मूल्ये धानं विक्रयन्ते ६ लाख ६९ सहस्त्र धान-उत्पादक कृषकाणां कोषेशु ३३७ कोटि १२ लक्षरूप्यकाणि “सिंगल क्लिक्” माध्यमेन अंतरितं करिष्यति।
जनसंपर्क-अधिकारी के.के. जोशी उक्तवान् – मुख्यमन्त्री डॉ. यादवः कार्यक्रमे ४३१५ युवकान् नियुक्तिपत्रैः प्रदास्यन्ति च बालाघाट्-जनपदस्य २४४ कोटि मूल्ये ७५ निर्माणकार्याणां लोकार्पणं भूमिपूजनञ्च अपि करिष्यति।
कार्यक्रमे कृषक-बन्धवः सहित युवा: अपि सहभागी भविष्यन्ति। उल्लेखनीयं यत् मुख्यमन्त्री डॉ. यादवः समर्थन-मूल्ये धानं विक्रयन्ते कृषकाणां प्रति हेक्टेयर इति अधिकतमं १०,००० रूप्यकाणि अतिरिक्तं दातुं घोषणां कृतवन्तः। अस्य अतिरिक्तराशिः बालाघाट् - जनपदस्य एकलक्षात् अधिकं कृषकाः लाभांविताः भविष्यन्ति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता