Enter your Email Address to subscribe to our newsletters
जयपुरम् 24 सितम्बरमासः (हि.स.)। राजस्थानलोकसेवायोगेन प्राध्यापक-प्रशिक्षक (विद्यालयशिक्षा) प्रतियोगीपरीक्षा–२०२४ अन्तर्गत राजनैतिकविज्ञानविषयस्थानानां कृते विचारितसूची प्रकाशिता। सूच्यां षट् अभ्यर्थिनः पात्रतापरीक्षणाय अस्थायिरूपेण सम्मिलिताः। विस्तृता सूचना आयोगस्य जालपृष्ठे उपलब्धा।
आयोगसचिवेन उक्तम्— एषा सूची चयनप्रक्रियायां भागग्रहणकृतानामभ्यर्थिनां अभ्यर्थितानिश्चयार्थं केवलं वैधनिकप्रपत्रसत्यापनस्य प्रयोजनाय इति। सा चयनसूची न वा वरीयतासूची। अन्तिमरूपेण सफलाभ्यर्थिनां सूची सम्बन्धितविभागेन वैधानिकप्रपत्रसत्यापनं कृतवान् सति आयोगेन प्रकाशिता भविष्यति।
उक्तपरीक्षायाः विचारितसूच्यां सम्मिलिताः अभ्यर्थिनः विस्तृतं आवेदनपत्रं जालपृष्ठेन पूरयितुं प्रवृत्ताः स्युः। विस्तृतं आवेदनपत्रं पूरयितुं जालसन्धेः सङ्ग्रहः २९ सितम्बरतः ५ अक्टूबर २०२५ पर्यन्तं (रात्रौ ११.५९) उद्घाटितः भविष्यति। अभ्यर्थिभिः जालपृष्ठ-आवेदनं वैधानिकसत्यापनं च सम्बन्धिनिर्देशानां पालना आवश्यकतया सुनिश्चितव्या।
तैः अपि उक्तम्— विचारितसूच्यां अस्थायिरूपेण सम्मिलिताः सर्वेऽभ्यर्थिनः स्वस्य एसएसओ-आईडी द्वारा ‘रिक्रूटमेंट पोर्टल’ मध्ये ‘माय रिक्रूटमेंट-डीटेल्ड फॉर्म कम स्क्रूटनी–अप्लाई नाउ’ इत्यस्य विकल्पस्य चयनं कृत्वा स्वं विस्तृतं आवेदनपत्रं जालपृष्ठे पूरयन्तु। विस्तृत-आवेदनपत्रस्य वैधानिकप्रपत्रानां च परीक्षणं केवलं सम्बन्धितविभागेन (माध्यमिकशिक्षाविभागेन) करिष्यते। उक्तपरिणामे अन्तर्गतं आयोगेन १०% अधिकेषु प्रश्नेषु पञ्चविकल्पेषु कश्चन अपि विकल्पः न पूरितः इति कारणेन ३८६ अभ्यर्थिनः परीक्षायाः अयोग्याः इति घोषिता। एषां अभ्यर्थिनां क्रमाङ्कसङ्ख्या पृथक् आयोगस्य जालपृष्ठे प्रकाशिता।
हिन्दुस्थान समाचार / अंशु गुप्ता