Enter your Email Address to subscribe to our newsletters
काठमांडूनगरम्, 24 सितंबरमासः (हि.स.)। वित्तमन्त्री रामेश्वर-खनालः नेपालदेशे भारतीयराजदूतः नवीन-श्रीवास्तवेन सह मंगलवारे मिलितवन्तौ, यस्मिन् नेपालस्य पुनर्निर्माणे अन्येषु च क्षेत्रेषु आर्थिक-सहयोगं प्रति विमर्शः जातः।
भारतीयराजदूतः वित्तमन्त्रिणं खनालम् अभिनन्द्य आगामिदिने भारतस्य निरन्तरं सहयोगं प्रदास्यति इति आश्वासनं दत्तवान्। वित्तमन्त्री च नेपालस्य पुनर्निर्माणकार्ये भारतसहयोगस्य अपेक्षां व्यक्त्वा अन्येषु च क्षेत्रेषु प्रवर्तमानस्य सहयोगस्य निरन्तरत्वं याचितवान्।
प्रतिवचने भारतीयराजदूतः उभयोः राष्ट्रयोः प्रधानमन्त्रिणोः मध्ये जातं दूरभाष-संवादं स्मारितवान्, यस्मिन् भारतीयप्रधानमन्त्री नेपालस्य पुनर्निर्माणे भारतस्य सर्वथा सहयोगं प्रदास्यति इति आश्वासनं दत्तवान्। राजदूतः श्रीवास्तवः अवदत्— भारतं सर्वासु परिस्थितिषु नेपालाय निरन्तरं सहयोगं प्रदास्यति।
एतस्मिन् मेलने नेपालदेशे भारत-सहयोगेन प्रवर्तमानानां सर्वेषां महत्त्वपूर्णानां परियोजनानां कार्यप्रगतेः समीक्षा अपि कृता। अस्य अतिरिक्तं, येषु नूतन-परियोजनासु सहयोगार्थं सन्धिः सहमतिः वा जातः, तेषु विषये अपि विमर्शः अभवत् इति वित्तमन्त्री खनालः सूचितवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता