सत्तायाः पदात् अपसरणानन्तरं चतुर्दशदिनयोः परं प्रथमवारं सार्वजनिकरूपेण दृष्टः केपी ओली
काठमांडूनगरम्, 24 सितंबरमासः (हि.स.)। सत्तायाः पदात् अपसरणात् चतुर्दशदिनानन्तरं अपसृतप्रधानमन्त्री केपी शर्मा ओली सोमवासरे स्वसमर्थकानां कार्यकर्तृणां च मध्ये दृश्यः अभवत्। भद्रग्रामे किरायागृहे निवसन् ओली किञ्चनैः समर्थकैः कार्यकर्तृभिश्च सह आगत्य
अपदस्थ होने के बाद पहली बार के पी ओली


काठमांडूनगरम्, 24 सितंबरमासः (हि.स.)। सत्तायाः पदात् अपसरणात् चतुर्दशदिनानन्तरं अपसृतप्रधानमन्त्री केपी शर्मा ओली सोमवासरे स्वसमर्थकानां कार्यकर्तृणां च मध्ये दृश्यः अभवत्।

भद्रग्रामे किरायागृहे निवसन् ओली किञ्चनैः समर्थकैः कार्यकर्तृभिश्च सह आगत्य सिंहदरबारे जातामग्निकाण्डं अवैधप्रवेषिनां षड्यन्त्रं इति अभ्यधात्। सः अवदत्—यः स्वदेशं प्रेम्णा पश्यति, यः स्वइतिहासं प्रेम्णा स्मरति, सः कदापि सिंहदरबारे दाहकाण्डं न कर्तुं शक्नोति।

काठमाण्डूपुरस्य नगराध्यक्षं बालेन शाहं प्रति लक्षीकृत्य ओली अवदत्—कतिपयदिनपूर्वमेव कश्चन सिंहदरबारे अग्निप्रज्वलनस्य भयोत्पादनम् कृतवान्नासीत्। अतः एषः आक्रमणः कृतः।

जेन-जी नामकप्रदर्शनं प्रति कटाक्षं कृत्वा ओली अवदत्—नेपालं कुप्रसिद्धदेशः जातः। अनेकदेशैः वीजा-दानं निरुद्धम्, कार्यप्रदानं च निरुद्धम्। अस्मात् परिस्थितेः देशं रक्षितुं अस्माभिः अनिवार्यं।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता