सरदारवल्लभभाईपटेलस्य 150वीं जयन्त्यवसरे प्रश्नोत्तरीप्रतियोगितानाम् आयोजनम्।
अवंतीपोरा 24 सितंबरमासः (हि.स.)। भारतस्य लौहमनुष्यः सरदारवल्लभभाईपटेलस्य 150तमजयन्त्याः अवसरं प्रति आरक्षक-अवन्तीपोरा इत्यनेन अद्य राजकीय-उच्चतरमाध्यमिकविद्यालये गुलजारपोरा इत्यस्मिन् नूतन-आपराधिक-नियमेषु प्रश्नोत्तरीप्रतियोगिता च जागरूकताकार्यक्रमः
सरदारवल्लभभाईपटेलस्य 150वीं जयन्त्यवसरे प्रश्नोत्तरीप्रतियोगितानाम् आयोजनम्।


अवंतीपोरा 24 सितंबरमासः (हि.स.)। भारतस्य लौहमनुष्यः सरदारवल्लभभाईपटेलस्य 150तमजयन्त्याः अवसरं प्रति आरक्षक-अवन्तीपोरा इत्यनेन अद्य राजकीय-उच्चतरमाध्यमिकविद्यालये गुलजारपोरा इत्यस्मिन् नूतन-आपराधिक-नियमेषु प्रश्नोत्तरीप्रतियोगिता च जागरूकताकार्यक्रमः च आयोजितः।

कार्यक्रमे छात्राणां उत्साहपूर्णं सहभागित्वं दृष्टं, ये भारतस्य इतिहासे, एकतायाः मूल्यम्, सरदारपटेलमहाभागस्य योगदानं च ज्ञातुं निर्मितायां प्रश्नोत्तरीप्रतियोगितायां भागं गृहीतवन्तः।

अतिरिक्ततया अवन्तीपोरा-उपवृत्यधिकारी (SDPO) राजा माजिद-जेकेपीएस, तथा अवन्तीपोरा-आरक्षकस्थानस्य प्रभारी (SHO) अजाज हमाद, च रेशिपर्स-आरक्षकचौकीप्रभारी निरीक्षकः बिलाल अहमद इत्येते छात्रान् नूतन-प्रवर्तितेषु आपराधिक-नियमेषु जागरूकान् अकुर्वन्। ते न्यायस्य सार्वजनिकसुरक्षायाः च सुनिश्चितौ प्रमुखलक्षणानि, महत्त्वं च प्रकाशयामासुः।

एषः उपक्रमः अवन्तीपोरा-आरक्षकैः सामुदायिकसम्बन्धानां संवर्धनाय, देशभक्तेः प्रसारणाय, युवा-पीढीं च एकतायाः राष्ट्रीयगौरवस्य च भावना धारयितुं प्रोत्साहयितुं च प्रतिपादितां प्रतिबद्धतां प्रकाशयति।

हिन्दुस्थान समाचार / Dheeraj Maithani