सप्तोत्तरं त्रिशतस्य औषधिविशेषज्ञानां जातं पदस्थापनम्
जयपुरम्, 24 सितंबरमासः(हि.स.)।चिकित्सा तथा स्वास्थ्य विभागेन ३०७ औषधनिर्माणकाः अस्थायिरूपेण प्रदेशे सर्वत्र विविधानि रिक्तपदानि प्रति पदस्थिताः चिकित्सा-स्वास्थ्यविभागस्य प्रमुखशासनसचिवा श्रीमती गायत्री राठौड् इत्यनेन उक्तम् यत् पदस्थितेषु अभ्यर्थिष
चिकित्सा एवं स्वास्थ्य विभाग


जयपुरम्, 24 सितंबरमासः(हि.स.)।चिकित्सा तथा स्वास्थ्य विभागेन ३०७ औषधनिर्माणकाः अस्थायिरूपेण प्रदेशे सर्वत्र विविधानि रिक्तपदानि प्रति पदस्थिताः

चिकित्सा-स्वास्थ्यविभागस्य प्रमुखशासनसचिवा श्रीमती गायत्री राठौड् इत्यनेन उक्तम् यत् पदस्थितेषु अभ्यर्थिषु २८८ जना अननुसूचितप्रदेशे, १९ जना अनुसूचितप्रदेशे च नियोजिताः। अस्य फलस्वरूपेण राज्ये विशेषतः दुर्गमप्रदेशेषु चिकित्सासेवासु सुधारः भविष्यति।

निदेशकः (अराजपत्रितः) श्री राकेश शर्मा इत्यनेन उक्तम् यत् सर्वे पदस्थिताः औषधनिर्माणकाः प्रथमं राजहेल्थ-पोर्टल इत्यत्र ऑनलाइन तथा लिखितरूपेण स्वीयान् नियन्त्रकाधिकाऱेभ्यः १३ अक्तूबर् पर्यन्तं प्रतिवेदनं दातव्यम्। अन्यथा नियुक्तिपत्रं च पदस्थापनादेशः च स्वयमेव निरस्तः गण्येत।

उल्लेखनीयम् यत् एतेषां अभ्यर्थिनां परिणामः विविधानां कारणानां कृते पूर्वमेव रोहितः। पूर्वं २३४६ जना अभ्यर्थिनः औषधनिर्माणकपदे नियुक्ताः आसन्।

---------------

हिन्दुस्थान समाचार