स्वदेशीयवस्तूनामक्रयार्थं भारत: जगतः तृतीयमहत्तमम् अर्थतन्त्रं कर्तुं कश्चन निवारयितुं न शक्नुयात् – अमितशाहः
गान्धीनगरम्, २४ सितम्बरमासः (हि.स.)। भारतस्य गृहमन्त्रिणः सहकारितामन्त्रिणश्च अमितशाहेन देशवासिनः आह्वानं कृतम् – “गृहेषु एकापि विदेशीया वस्तुर्न आनयतु। यदि देशवासिनः केवलं स्वदेशीयवस्तूनि क्रेतुं प्रवृत्ताः स्युः, तर्हि भारत: जगतः तृतीयमहत्तमं अर्थत
केंद्रीय मंत्री अमित शाह


कलोल, गांधीनगर


गान्धीनगरम्, २४ सितम्बरमासः (हि.स.)। भारतस्य गृहमन्त्रिणः सहकारितामन्त्रिणश्च अमितशाहेन देशवासिनः आह्वानं कृतम् – “गृहेषु एकापि विदेशीया वस्तुर्न आनयतु। यदि देशवासिनः केवलं स्वदेशीयवस्तूनि क्रेतुं प्रवृत्ताः स्युः, तर्हि भारत: जगतः तृतीयमहत्तमं अर्थतन्त्रं भविष्यति, तत्र न कश्चन प्रतिबन्धः।”

सः प्रहर्षेण उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिना जी.एस्.टी. मध्ये आहारवस्तुषु करः अपहृतः, कृषकानां वस्तुषु करः अर्धीकृतः च। सः मंगलवासरे रात्रौ गान्धीनगरजनपदे सम्पन्ने कार्यक्रमे जनसमुदायं संबोधितवान्।

तस्मात् पूर्वं शाहेन कलोलस्थिते भारतमातासभागृहे १४४ कोटिरूप्यकाणां विकासयोजनानां उद्घाटनं शिलान्यासं च कृतम्। सः जनसमुदायं प्रति उक्तवान् – “सांसद: रूपेण अहं कलोलाय पर्याप्तं समयं दातुं न शक्नोमि। किन्तु दशवर्षपर्यन्तं यदि सर्वेषां संसदीयराज्यानां मध्ये सर्वाधिकविकासकार्याणि कतिपये स्थलेषु कृतानि स्युः, तर्हि अस्माकं गान्धीनगरमेव तानि जातानि। अस्य उत्तरदायित्वं मम सहचराणां च अस्ति।”

दीपावलिः हर्षोल्लासेन आचर्यतामिति आह्वानं कृत्वा पुनः सः उक्तवान् – “स्वदेशीयवस्तूनि स्वीकृत्य देशस्य अर्थव्यवस्थां दृढीकर्तुं सहयोगिनः भवित।”

कार्यक्रमे गान्धीनगर-जनपद-भा.ज.पा.अध्यक्षः अनिलभाईपटेलः, गान्धीनगर-दक्षिणविधानसभायाः विधायकः अल्पेशभाई ठाकोरः, अमूलस्य अध्यक्षः अशोकभाई चौधरी, गान्धीनगर-उपजनपदाधिकारी मेहुल् के. दवे इत्यादयः उपस्थिताः आसन्।

---

कलोलनगरपालिकायाः रूपान्तरणम्।

शाहेन कलोलनगरपालिकाक्षेत्राय ५३ कोटिरूप्यकाणां मूल्ये पञ्चयोजनानां उद्घाटनं कृतम्। तेषु ३५ कोटि-रूप्यकाणां व्ययेन जल-शोधन-केन्द्रम्, ११ कोटि-रूप्यकाणां व्ययेन ज्योतेश्वर-सरोवरनिर्माणम्, एक: आश्रायश्च अन्तर्भूत:। अपि च, शोध-उपकरणानि विविधानि बोरवेलकार्याणि च पूर्णानि सन्ति, अद्य तेषां लोकार्पणं कृतम्।

स्वर्णिमजयंती-मुख्यमंत्री-विकास-योजना, ए.यू.डी्.ए.-अनुदानं च अन्तर्गत्यान्ये ९१ कोटि-रूप्यकाणां मूल्ये कार्याणि आरब्धानि।

अमितशाहेन उक्तम् – “वर्षे २०२९ पर्यन्तं कलोलं ग्रामीण-शहरी-क्षेत्रयोः समन्वयेन आदर्शविधानसभाक्षेत्रं कर्तुं योजना रचिता अस्ति।”

कलोले अत्याधुनिकसुविधायुक्तं ३५० शय्यानां विशालं चिकित्सालयं निर्माणं प्रवृत्तम्। एषः चिकित्सालयः द्वाभ्यां वर्षाभ्यां सिद्धः भविष्यति। अस्मिन् चिकित्सालये विश्वस्तरीय-उपकरणानि, श्रेष्ठचिकित्सकाः च भविष्यन्ति। अस्याः पैथोलॉजी-प्रयोगशाला अहमदाबादस्य सिविल्-चिकित्सालयात् अपि श्रेष्ठा भविष्यति।

आयुष्मानभारतपत्रस्य गुजरातराज्यपत्रस्य च अन्तर्गतं १० लक्ष-रूप्यकाणि पर्यन्तं निःशुल्क-चिकित्सा अस्मिन् चिकित्सालये सम्भविष्यति।---

हिन्दुस्थान समाचार / अंशु गुप्ता