Enter your Email Address to subscribe to our newsletters
नवदेहली, 25 सितंबरमासः (हि.स.)। सेवा–पर्व 2025 अवसरसन्धौ केन्द्रीय–पर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रः यादवः गुरुवासरे असोलाभट्टीवन्यजीव–अभयारण्ये वृक्षारोपणं कृतवान्। एषः वृक्षारोपणकार्यक्रमः राष्ट्रीय–अभियानस्य ‘एकं वृक्षं मातुः नाम्ना’ इति अङ्गभूतः आसीत्।
कार्यक्रमे विद्यालयीयविद्यार्थिनः, केन्द्रीय–लमन्त्रालयस्य वरिष्ठ–अधिकाऱिणः, दिल्लीसरकारस्य राज्यवनविभागस्य प्रतिनिधयः, असोलाभट्टीस्थे नियोजिते 132 ईकोटास्क–फोर्स–राजपूत–रेजिमेण्ट्–सेनायाः सैनिकाश्च उत्साहेन सहभागितां कृतवन्तः।
अस्मिन् अवसरे भूपेन्द्रः यादवः उपस्थितछात्रछात्राभ्यः ईटीएफ्–कर्मिभ्यश्च सम्बोधनं कृत्वा उक्तवान् यत्—प्रकृतेः संरक्षणं कर्तुं, समाजे च पर्यावरण–सुरक्षां सामूहिकं आन्दोलनरूपेण स्थापयितुम् आवश्यकता अस्ति। सर्वैः अपि अस्मिन् आन्दोलने स्वस्य सहभागिता सुनिश्चितव्या इति। अस्मिन् अवसरे मन्त्रालयस्य राज्य–सरकारस्य वरिष्ठ–अधिकाऱिणः अपि उपस्थिताः आसन्।
कार्यक्रमः सामुदायिक–स्तरे पर्यावरणसंरक्षणसम्बद्ध–गतिविधीनां निरन्तरता–प्रतिबद्धतया समापितः। ‘एकं वृक्षं मातुः नाम्ना’ इति पहलां बलं दत्त्वा नागरिकाः स्वमातॄणां सम्मानार्थं वृक्षान् रोपयितुं, तेषां च परिपालनं कर्तुं प्रेरिताः अभवन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता