मध्यप्रदेशे मुख्यमन्त्री डॉ. मोहनः यादवः अद्य गुरुवासरे राज्यस्तरीय “स्वदेशीजागरणसप्ताहस्य शुभारम्भं करिष्यति
- महा-अभियानः द्वितीय-ऑक्टोबर-तिथिं यावत् प्रवर्तिष्यते।” भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशे मुख्यामन्त्रिणः डा.मोहनयादवः अद्य गुरुवासरे भोपालनगरस्य रविन्द्रभवने “म.प्र. जन-अभियानपरिषद्” तथा “स्वदेशी-जागरणमञ्च” इत्येतयोः संयुक्त-तत्वावधानम
सीएम मोहन यादव (फाइल फोटो)


- महा-अभियानः द्वितीय-ऑक्टोबर-तिथिं यावत् प्रवर्तिष्यते।”

भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशे मुख्यामन्त्रिणः डा.मोहनयादवः अद्य गुरुवासरे भोपालनगरस्य रविन्द्रभवने “म.प्र. जन-अभियानपरिषद्” तथा “स्वदेशी-जागरणमञ्च” इत्येतयोः संयुक्त-तत्वावधानम् अधिष्ठाय राज्यस्तरीयः स्वदेशी-जागरण-सप्ताहस्य शुभारम्भं करिष्यन्ति। मुख्यामन्त्रिणः सन्निधौ प्रातः नववादनात् आरभ्य मुख्यामन्त्रीनिवासात् रविन्द्रभवनं प्रति रैली अपि निष्कासिता भविष्यति। अस्मिन् रैली-आयोजने म.प्र. जन-अभियान-परिषद् स्वदेशी-जागरण-मञ्च च सम्बन्धिनः त्रिशतं प्रतिभागिनः सहभागं करिष्यन्ति।

जनसम्पर्क-अधिकारी सन्तोष-मिश्रः सूचितवान् यत् एषः महा-अभियानः प्रदेशस्य त्रिशत-त्रयोदश-विकासखण्डेषु २५ सितम्बर-तिथेः आरभ्य द्वितीय-ऑक्टोबर-तिथिं यावत् प्रवर्तिष्यते। स्वदेशी-जागरण-सप्ताहे स्वदेशी-वस्तूनां प्रचार-प्रसाराय प्रोत्साहनाय च विशेषः उपक्रमः आयोज्यते।

कार्यक्रमे उपमुख्यमन्त्री जगदीश-देवडाः, मध्यप्रदेश-जन-अभियानपरिषदः उपाध्यक्षः मोहननागरः, “स्वर्णिम-भारत-वर्ष-फाउण्डेशन” संस्थायाः च अखिलभारतीय-सहप्रमुखः स्वदेशीमेलायाः मुख्यकार्यालयाध्यक्षः साकेतसिंह-राठौरः, “स्वावलम्बी-भारत-अभियान”-अखिलभारतीय-सहसमन्वयकः जितेन्द्रगुप्तः, “सरस्वती-विद्या-प्रतिष्ठान”-मध्यप्रदेशस्य प्रादेशिकाध्यक्षः मोहनगुप्तः, विद्यालयमहाविद्यालययोः छात्र-छात्रिणः च सन्निहिता भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता