इतिहासपृष्ठेषु सितम्बरमासस्य 26 दिनाङ्के — २०११ तमे वर्षे दिल्ली-मेट्रो नामकं रेलप्रणाली संयुक्तराष्ट्रेभ्यः विश्वस्य प्रथमं हरित-कार्बन्-श्रेयस्क्रेडिट प्राप्तवती
२०११ तमे वर्षे दिल्ली-मेट्रो जगतः प्रथमं रेलजालं जातम्, यस्मै संयुक्तराष्ट्रेण कार्बन्-श्रेयस्क्रेडिट् प्रदत्तम्। एषा मान्यता तस्याः हरितगृह-गैस-उत्सर्जनस्य न्यूनीकरणाय कृतप्रयत्नानाम् आधारात् दत्ता। अस्या उपलब्धेः कारणेन दिल्ली-मेट्रो ’पर्यावरण-रक्ष
प्रतीकात्मक।


२०११ तमे वर्षे दिल्ली-मेट्रो जगतः प्रथमं रेलजालं जातम्, यस्मै संयुक्तराष्ट्रेण कार्बन्-श्रेयस्क्रेडिट् प्रदत्तम्। एषा मान्यता तस्याः हरितगृह-गैस-उत्सर्जनस्य न्यूनीकरणाय कृतप्रयत्नानाम् आधारात् दत्ता। अस्या उपलब्धेः कारणेन दिल्ली-मेट्रो ’पर्यावरण-रक्षण’ तथा ’सतत-नगरीय-परिवहन’ क्षेत्रयोः वैश्विकस्तरे आदर्शः अभवत्।

दिल्ली-मेट्रोया ऊर्जा-कुशल-प्रौद्योगिक्यः, विद्युत्-चालित-यानानि, वर्षाजल-संग्रहः, सौर-ऊर्जा-प्रयोगः च इत्यादयः उपायाः स्वीकृताः। तैः नगरेषु कार्बन्-उत्सर्जनस्य न्यूनीकरणम् पर्यावरण-रक्षणस्य च महत्त्वम् प्रकाशितम्।

संयुक्तराष्ट्रस्य विज्ञप्त्यां उक्तम्—एषा परिवहन-प्रणाली एकस्मिन् वर्षे ६,३०,००० टन-पर्यन्तं प्रदूषणं न्यूनं कृतवती। यदि मेट्रो न अभविष्यत् तर्हि राज्ये अष्टादशलक्षाः जनाः प्रतिदिनं कारयानं, बस् अथवा द्विचक्रिकां प्रयुञ्जीरन्, येन प्रदूषणवृद्धिः जाताऽभवत्। विज्ञप्त्यां उक्तं यत् दिल्ली ७ वर्षाणि यावत् ९५ लक्ष-डॉलर्स् परिमाणं कार्बन्-श्रेयः प्राप्स्यति। यात्रिणां संख्या यथा वर्धते तथा तद्राशिः अपि वर्धिष्यते इति संयुक्तराष्ट्रेण उक्तम्।

क्योटो-संधेः अन्तर्गतं संयुक्तराष्ट्रस्य स्वच्छ-विकास-तन्त्र-इकाई इत्यनेन प्रमाणितम् यत् दिल्ली-मेट्रो हरितगृह-गैस-उत्सर्जनं न्यूनं कृतवती।

अत्रापि उक्तम् यत् जगति अन्यासां मेट्रो-प्रणालीनां कार्बन्-श्रेयः न लब्धम्, यतः तस्मै निर्णायकं प्रमाणपत्रं अपेक्षितम्। ये जनाः कारयानं वा बस्-यानं त्यक्त्वा मेट्रो-यानं प्रयुञ्जते, ते प्रत्येकं दश-किलोमीटर-यात्रायाः कृते प्रायः शतग्राम्-कार्बन्-डाय-अक्सैड् न्यूनं कुर्वन्ति। अस्य परिणामः—जलवायुपरिवर्तन-न्यूनीकरणे साहाय्यम्।

दिल्ली-मेट्रो २००२ तमे वर्षे आरब्धा। प्रथमं शाहदरा–ऋठाला-मध्येन उद्घाटिता। अधुना सा दिल्ली-समीप-प्रदेशेषु अपि विस्तृता अस्ति।

महत्त्वपूर्णाः घटनाचक्राणि

१०८७ – विलियम-द्वितीयः इङ्ग्लैण्डस्य सम्राट् अभवत्।

१७७७ – अमेरिकीय-क्रान्तिः : ब्रिटिश-सैनिकाः फिलाडेल्फिया-नगरं विजग्राहुः।

१८७२ – न्यूयोर्क-नगर्यां प्रथमं देवालयः निर्मितः।

१९५० – संयुक्तराष्ट्रसैनिकैः उत्तर-कोरिया-सैनिकेभ्यः सोल-नगरं गृहीतम्।

१९५० – इण्डोनेशिया संयुक्तराष्ट्रस्य सदस्यत्वं स्वीकृतवती।

१९५९ – जापान-इतिहासे महत्तमः वेरा इत्याख्यः चक्रवातः, ४५८० जनाः मृताः, १६ लक्षाः जनाः निराश्रिताः।

१९६० – अमेरिके राष्ट्रपतिपदयोः प्रत्याशिनोः जॉन्-एफ्-केनेडी-रिचर्ड्-निक्सन् च मध्ये प्रथमं दूरदर्शन-विवादः प्रसारितः।

१९८४ – युनाइटेड् किङ्ग्डम् हाङ्काङ्गं चीनाय समर्पयितुं सहमतम्।

१९९८ – सचिन्-तेन्दुलकरः जिम्बाब्वे-क्रीडायां १८ तमं शतकं कृत्वा डेस्मण्ड्-हेन्स्-रिकार्डं भङ्क्तवान्।

२०११ – दिल्ली-मेट्रो जगतः प्रथमं रेलजालं अभवत्, यत् संयुक्तराष्ट्रेण कार्बन्-श्रेयसा सम्मानितम्।

जन्मदिनानि

१८२० – ईश्वरचन्द्रः विद्यासागरः – समाजसुधारकः, शिक्षाशास्त्रज्ञः, स्वाधीनतासेनानी च।

१८८८ – टी. एस्. इलियट् – नोबेल्-पुरस्कार-विजयी आङ्ग्ल-कविः।

१९२३ – देव-आनन्दः – चलचित्र-अभिनेता, निर्माता च।

१९३२ – डॉ. मनमोहनसिंहः – भारतस्य पूर्वप्रधानमन्त्री।

निधनानि

१८४२ – लॉर्ड्-वेल्ज्ली – भारतस्य गवर्नर्-जनरल् (१७९८–१८०५)।

१९७७ – उदयशङ्करः – नर्तकः, नृत्यनिर्देशकः, बैले-निर्माता च।

१९८९ – हेमन्तकुमारः – गायकः, सङ्गीतकारश्च।

विशेषदिवसाः

सी.एस्.आइ.आर्. स्थापना-दिवसः।

विश्व-मूकबधिर-दिवसः।

विश्व-गर्भनिरोधक-दिवसः।

हिन्दुस्थान समाचार / अंशु गुप्ता