विश्वस्य 91 राष्ट्रेषु 150 स्थलेषु ‘विकसितभारतधावनम्’ आयोजनं भविष्यति
नवदेहली, 25 सितंबरमासः (हि.स.)। राष्ट्रनिर्माणे सामूहिकप्रयासं प्रेरयितुं युवा–क्रीडामन्त्रालयेन विदेशमन्त्रालयस्य सहयोगेन सेवापक्षपक्ष्याः अवधौ ‘विकसितभारतधावन–2025’ इत्यस्य आयोजनं करिष्यते। एषा धावनप्रतियोगिता प्रथमवारं 91 राष्ट्रेषु 150 अधिकेषु स्
दुनिया में 91 देशों के 150 स्थानों पर होगा ‘विकसित भारत रन-2025’ का आयोजन


नवदेहली, 25 सितंबरमासः (हि.स.)। राष्ट्रनिर्माणे सामूहिकप्रयासं प्रेरयितुं युवा–क्रीडामन्त्रालयेन विदेशमन्त्रालयस्य सहयोगेन सेवापक्षपक्ष्याः अवधौ ‘विकसितभारतधावन–2025’ इत्यस्य आयोजनं करिष्यते। एषा धावनप्रतियोगिता प्रथमवारं 91 राष्ट्रेषु 150 अधिकेषु स्थलेषु आयोजिता भविष्यति।

मन्त्रालयस्य कथनुसारं अधिकांशाः धावनाः सितम्बर् 28 दिने आयोजिता भविष्यन्ति। Run to serve the Nation इत्यनेन टैग्–रेखया आयोजिता एषा सामुदायिक–धावनाः 3–5 किलोमीटर्–दूरीमध्ये भविष्यति। आयोजनाय विश्वस्य ख्याताः प्रतीकात्मकरूपेण चयनिताः स्थलेषु—मैक्सिको–नगरे स्थितः Angel of Independence इत्याख्यः स्मारकः, सूरीनामस्य पारामारिबो–नगरस्य यूनेस्को–विश्व–धरोहर–स्थलम्, सैन–फ्रांसिस्को–नगरे गोल्डन–गेट्–सेतुश्च सम्मिलिताः।

अस्मिन् धावने प्रवासीभारतीययुवाः, स्थानीय–समुदायः, छात्राः, व्यवसायिनश्च सहभागी भविष्यन्ति। प्रतिभागिनः आत्मनिर्भर–भारतस्य प्रतिज्ञां करिष्यन्ति, एकं वृक्षं मातुः नाम्ना इति वृक्षारोपण–अभियाने भागं ग्रहीष्यन्ति, माईभारतपटलनाम्ना योजनायामपि संबध्यिष्यन्ते। अस्याः पहलायाः माध्यमेन प्रवासीभारतीयानां, भारतीयवंशजजनानां, स्थानीय–समुदायानां च संयोगे विशेषं बलं दत्तं जातम्। भारतीय–दूतावासाः सांस्कृतिक–संस्थाभिः सामुदायिक–समूहैः च सह युवानां संगठनं करिष्यन्ति।

स्थानीय–नेतारः, गण्यमान्य–व्यक्तयश्च अपि मुख्य–अतिथिरूपेण आयोजने सम्मिलिता भविष्यन्ति। धावन–अनन्तरं क्रियायाः चित्राणि, चलचित्राणि च माईभारतपटले सार्वजनिकं भविष्यन्ति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता