निर्वाचनपरिष्काराः—डाकमतपत्राणां गणनां कृत्वा अनन्तरं एव ई–वी–एम् अन्तिमयोः द्वयोः चरणयोः गणना भविष्यति
नवदेहली, 25 सितंबरमासः (हि.स.)। निर्वाचन–आयोगेन निर्वाचन–सुधाराणां शृङ्खलायामेकं नूतनं नियमं निर्धारितम्। अस्याः अन्तर्गतं अधुना मतगणनायां डाकमतपत्राणां गणना समाप्य पश्चात् एव ई–वी–एम् (इलेक्ट्रॉनिक–मतयन्त्र)–अन्तिमयोः द्वयोः चरणयोः गणना करणीया भविष्
ई वी एम


नवदेहली, 25 सितंबरमासः (हि.स.)। निर्वाचन–आयोगेन निर्वाचन–सुधाराणां शृङ्खलायामेकं नूतनं नियमं निर्धारितम्। अस्याः अन्तर्गतं अधुना मतगणनायां डाकमतपत्राणां गणना समाप्य पश्चात् एव ई–वी–एम् (इलेक्ट्रॉनिक–मतयन्त्र)–अन्तिमयोः द्वयोः चरणयोः गणना करणीया भविष्यति।

निर्वाचन–अधिकाऱिणः कृते एतत् सुनिश्चितं करणीयं यत्, यदि अधिक–संख्यायुक्ताः डाक–मतपत्राः लब्धाः, तर्हि तेषां गणना समये एव स्यात्, तस्मै प्रयोजनाय यथेष्ट–संख्यकाः गणना–अधिकाऱिणः उपस्थिताः स्युः।

निर्वाचन–आयोगेन गुरुवासरे एकस्मिन् वक्तव्ये एषः निर्णयः प्रकाशितः। मुख्य–निर्वाचन–आयुक्त–ज्ञानेशकुमारस्य नेतृत्वे निर्वाचन–आयोगेन अस्मिन् वर्षे कृतासु एषा त्रिंशत्–तमाः पहलाः अस्ति, यस्याः माध्यमेन मतदान–प्रक्रिया सुलभा सरलाश्च अभवताम्।

साम्प्रतिके काले निर्वाचन–आयोगेन वृद्ध–मतदातॄणां कृते मतपत्रैः गृहमेव मतदानस्य सुविधा आरब्धा अस्ति, यस्मात् मतपत्राणां संख्या निरन्तरं वर्धमानाः। निर्वाचनकाले मतगणनायाः दिने डाकमतपत्रगणना प्रातः अष्टवादने, ई–वी–एम्–गणना तु अष्ट–अर्धवादने आरभ्यते स्म। बहुषु स्थितिषु ई–वी–एम्–गणना समापिता जाता, किन्तु डाक–मतपत्र–गणना तु अनुवर्तमानैव आसीत्। एतस्याः अवस्थायाः समाधानार्थं आयोगेन अद्य एषः निर्णयः कृतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता