Enter your Email Address to subscribe to our newsletters
पञ्चदिनात्मकस्य उत्तरप्रदेशे अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य प्रधानमन्त्रिणा उद्घाटनं कृतम्।
“जीएसटी–परिष्कारेण सर्वेषां वर्गेषु जनानां नूतनं जीवन–दानं प्राप्तम्” इति योगी अवदत्।
गौतमबुद्धनगरम् 25 सितंबरमासः (हि.स.)।
उत्तरप्रदेश–सरकारस्य ओरतः ग्रेटर्–नोएडास्थिते एक्स्पो–मार्ट्–नाम्नि पञ्चदिनात्मकस्य यूपी अन्तर्राष्ट्रीय–व्यापार–प्रदर्शनस्य आज प्रधानमन्त्रिणा नरेन्द्रेण मोदिना उद्घाटनं कृतम्। प्रधानमन्त्रिणा देश–विदेशयोः उद्योगपतिभ्यः भारत–उत्तरप्रदेशयोः निवेशं कर्तुं आह्वानं कृतम्। सः देशीय–व्यापारिभ्यः स्वदेशी–उत्पादस्य मन्त्रं स्वीकर्तुं अपि अपील् कृतवान्।
भारतस्य प्रधानमन्त्रिणा नरेन्द्रेण मोदिना एक्स्पो–मार्ट्–परिसरे एकः सभा अपि सम्बोधितः। प्रधानमन्त्रिणा उक्तं यत् भारतस्य, विशेषतः उत्तरप्रदेशस्य अन्तर्गतं, देश–विदेश–उद्योगपतयः निवेशं कुर्वन्तः यथा प्रवर्तन्ते, तस्मात् भारतस्य आर्थिक–क्षमता अत्यधिकं सुदृढा भविष्यति। तेन देश–विदेश–उद्योगपतिभ्यः आह्वानं कृतम् यत्—ते भारत–उत्तरप्रदेशयोः निवेशं कुर्वन्तु। भारतस्य अन्तराले उद्योगस्थापनाय अनुकूलः वातावरणः निर्मितः अस्ति। प्रधानमन्त्रिणा जी–एस्–टी–सुधारस्य उल्लेखः कृतः, सः अवदत् यत् नूतन–जी–एस्–टी–परिष्कारेण उद्योगव्यापारः, कृषकाः, दरिद्राः, श्रमिकाः, बालकाः सर्वे लाभं प्राप्नुवन्ति। तेन उक्तं यत् वर्षे 2014 पूर्वं साधारण–नागरिकैः बहुगुणितं करं दातव्यम् आसीत्, यः अधुना अत्यल्पः जातः। यत्र यत्र वस्तुषु करः न्यूनः जातः तेषाम् उदाहरणं दत्त्वा उपस्थितान् जनान् सः अवगतवान्।
प्रधानमन्त्रिणा उक्तं यत् अस्माकं सेनाः स्वदेशीय–शस्त्राणां निरन्तरं मागं कुर्वन्ति। उत्तरप्रदेशे डिफेन्स्–कॉरिडोरः निर्मीयते, यत्र ब्रह्मोस–मिसाइल् आरभ्य रक्षा–सम्बद्धाः अनेकाः उपकरणाः निर्मीयन्ते। सः अवदत् यत् रूसस्य सहयोगेन उत्तरप्रदेशे स्वचालित–राइफलस्य निर्माणं शीघ्रमेव आरभ्यते। तेन उद्योगपतिभ्यः उक्तं यत्—व्यवसाये/कारोबारे याः लघु–लघु–त्रुटयः भवन्ति, तासां कारणेन यः केसः भवति, तादृशाः शताधिकाः नियमाः अस्य सरकारेण समाप्ताः कृताः। उद्योगपतिभ्यः तेन अपि उक्तं यत्—मम अपेक्षाः अपि सन्ति। तेन उक्तं यत् भारतनिर्मितः उत्पादः सर्वोत्तम–गुणयुक्तः भवितुमर्हति। मोदिना अवदत् यत् अद्य देशवासिनां मनसि एषा भावना उत्पन्ना यत् स्वदेशीय–उत्पादेषु गुणवत्तायाः निरन्तरं विकासः भवति। गुणवत्तायाः विषयेषु कोऽपि समर्पणं न भवेत्। देशस्य प्रत्येकः नागरिकः स्वदेशेन सह सम्बद्धः भवति। सः स्वदेशीय–उत्पादं क्रीतुं इच्छति। अस्माकं व्यापारिभिः अपि एषः मन्त्रः स्वीकर्तव्यः—यः भारत–निर्मितः उपलब्धः अस्ति तं प्रथमतया ग्राहयितव्यम्। भवन्तः यत्र यत्र आवश्यकं सहायता याचयिष्यन्ति, तत्र तत्र उत्तरप्रदेश–सरकारः भारत–सरकारश्च भवन्तं सहायतुं सन्नद्धौ स्तः। सः अवदत्—वयं सर्वे मिलित्वा विकसित–भारतं विकसित–उत्तरप्रदेशं च निर्माणं करिष्यामः।
प्रधानमन्त्रिणा उद्योगपतिभ्यः उक्तं यत् वयं अनुसन्धान–निवेशं बहुगुणं वर्धयितुमर्हामः। अस्य कृते सरकारेण आवश्यकाः पदा उठिताः। अनुसन्धान–क्षेत्रे निजी–निवेशस्य कृते सर्वेऽपि अग्रे आगन्तव्या इति। एषः कालस्य मागः। अस्माभिः स्वदेशीय–अनुसन्धानस्य, स्वदेशीयप्रारूपस्य, स्वदेशीय–विकासस्य च पूर्णः इको–सिस्टमः निर्मातव्यः। निवेशाय अस्माकं उत्तरप्रदेशः अपि अद्भुताः सम्भावनाः धारयति। गत–वर्षेषु उत्तरप्रदेशे यत् कनेक्टिविटी–क्रान्तिः जाता, तेन लॉजिस्टिक्–व्ययः अत्यल्पः जातः। सः अवदत्—उत्तरप्रदेशः सर्वाधिक–एक्स्प्रेस्–वे–सम्पन्नः प्रदेशः जातः। एषः सर्वाधिक–अन्तर्राष्ट्रीय–विमानपत्तनसम्पन्नः प्रदेशः अपि जातः। द्वौ महानौ डेडिकेटेड्–कॉरिडोरौ अपि अत्र सम्बद्धौ स्तः। उत्तरप्रदेशस्य अनेक–जनपदेषु उत्पादाः अन्तर्राष्ट्रीय–बाजारं प्राप्तवन्तः। सः अवदत्—उत्तरप्रदेशः अनेकानि नूतनानि रेकॉर्ड् स्थापयति। उत्तरप्रदेशः इलेक्ट्रॉनिक्–मोबाइल्–मैन्युफैक्चरिङ्ग–क्षेत्रस्य हब् जातः। एकस्मिन् विशाल–सेमिकन्डक्टर्–कारखाने कार्यं शीघ्रमेव आरभ्यते।
अस्मिन् अवसरे उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् जी–एस्–टी–परिष्कास्य उत्तरप्रदेशे आगमने, विश्वस्य सर्वाधिक–लोकप्रियः राजनेता, देशस्य प्रधानमन्त्रि–नरेन्द्रः मोदी इति, मया उत्तरप्रदेश–नागरिकाणाम् ओरतः हृदयतः स्वागतं कृतम्। तेन उक्तं यत् जी–एस्–टी–परिष्कारेण करस्य न्यूनता कृत्वा नागरिकेभ्यः दीपावल्याः उत्तमं उपहारं दत्तम्। प्रधानमन्त्रिणा जी–एस्–टी–परिष्कास्य माध्यमेन अत्यन्तं महत्वपूर्णः क्रान्तिकारीः पादाः उठिताः। तेन उक्तं यत् लघु–उद्योगः, हस्तशिल्पः, कार्पेट्–उद्योगश्च उत्तरप्रदेशे भारतस्य प्रथमस्थानं धारयन्ति। तेन उक्तं यत् जी–एस्–टी–परिष्कारेण सर्वेषां वर्गेषां जनानाम् नूतनं जीवन–दानं प्राप्तम्। अस्य लाभः उद्योग–व्यापार–जगतः अपि प्राप्यते।
मुख्यमन्त्रिणा योगिना उक्तं यत् गतएकादशवर्षेषु उत्तरप्रदेशस्य पारम्परिक–उद्योगः उत्पादाः च, येषां संख्या षट्–नवत्यधिकसहस्रं, ते उन्नताः कृताः। अस्य माध्यमेन द्वि–कोट्यधिकाः नागरिकाः युवाजनाश्च रोजगारं लब्धवन्तः। तेन उक्तं यत् कृषेः अनन्तरं लघु–उद्योगः एव रोजगारपरः उत्तरप्रदेशस्य प्रमुखः क्षेत्रः। उत्तरप्रदेशे महान्–उद्योगानामर्थं भूमिसञ्चयः कृत्वा औद्योगिक–उद्यानाः निर्मीयन्ते। उत्तरप्रदेशेन देश–विदेशयोः निवेशकाः स्वस्य आमन्त्रिताः। अत्र निर्माणम्, उत्पादः, रोजगारश्च नूतनाः अवसराः सृजिताः। तेन उक्तं यत् प्रत्येक–जनपदे शत–एकर्–क्षेत्रफले औद्योगिक–क्षेत्रस्य विकासाय सरकारेण योजना कृता। यस्मिन् लघु–उद्योगः, कौशल–विकासः, खादी–ग्रामोद्योगः, बैंक–कार्यालयाश्च स्थापनीयाः स्थानं लभन्ते। तेन उक्तं यत् उत्तरप्रदेशः आय–टी, सेमिकन्डक्टर्, इलेक्ट्रॉनिक्स्–मैन्युफैक्चरिङ्ग–क्षेत्रयोः वैश्विकः केन्द्रः जातः। देशस्य मोबाइल्–फोन्–मैन्युफैक्चरिङ्गस्य 55 प्रतिशत–अंशः, कम्पोनेंट्–मैन्युफैक्चरिङ्गे 50 प्रतिशताधिकः उत्पादनः उत्तरप्रदेशे एव भवति। सेमिकन्डक्टर्–क्षेत्रे देश–विदेशयोः अग्रगण्याः कम्पन्यः उत्तरप्रदेशे निवेशं कुर्वन्ति। तेन उक्तं यत् उत्तरप्रदेशसरकारेण आयटीक्षेत्रे उद्योगस्य दर्जा दत्तः। तेन उक्तं यत् उत्तरप्रदेशे मार्गयात्रायाः, रेल्–यात्रायाः, आकाश–यात्रायाश्च कनेक्टिविटी आसीत्। एषः अग्रगण्यपङ्क्तौ स्थितः। उत्तरप्रदेशे विधि–व्यवस्था सुस्थितिः। तेन उक्तं यत् अन्य–देशेषु निर्भरता न्यूनं कृत्वा स्वदेशीयसाधनानां श्रेष्ठ–उपयोगः आत्मनिर्भर–विकसितभारताय अत्यावश्यकः। मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः मार्गदर्शनं नेतृत्वं च अस्माभिः लब्धम्। तेन कारणेन अद्य उत्तरप्रदेशः बीमारू–राज्यत्वात् उद्धृत्य भारतस्य अग्रगण्य–प्रदेशः विकसित–भारतस्य ग्रोथ्–इञ्जिन–रूपेण स्वभूमिकां प्रभावशालीं निर्वहति।
अस्मिन् अवसरे उत्तरप्रदेशस्य MSME–मन्त्री राकेशसचानः, औद्योगिकविकासमन्त्री नन्दगोपालगुप्तानन्दी, जलशक्तिमन्त्री स्वतन्त्रसिंहः, पशुधनमन्त्री धर्मपालसिंहः, महिलाबालविकास–लविभागस्य मन्त्रिणी बेबी–रानी–मौर्या, उत्तरप्रदेशस्य ऊर्जा–नगरीयविकासमन्त्री एक्के–शर्मा, मन्त्री डॉ. संजयनिषादः, परिवहनराज्यमन्त्री दयाशंकरसिंहः, व्यावसायिक–कौशलविकासमन्त्री कपिलदेव–अग्रवालः, समाज–कल्याणलोकनिर्माणविभागस्य राज्यमन्त्री बृजेश–सिंहः, सांसदः महेश–शर्मा, सांसदः सुरेन्द्र–नागरः, अनेकेषु देशेषु राजदूताः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता