प्रेरणापरिवारेण राजभवने 251 सेवाबस्तिभ्यः आगतानां 5100 कन्यकानां पूजनं कृत्वा समरसतायाः संदेशं दत्तम्
कन्यानां संरक्षणं समाजस्य प्रत्येक–कुटुम्बस्य दायित्वम् इति क्षेत्रप्रचारकः।“मा” इति शब्दः भारतस्य लोके योगदानम् इति चम्पत रायः। लखनऊनगरम् 25 सितम्बरमासः (हि.स.) नवरात्रोत्सवे प्रेरणा–परिवारस्य पक्षेण गुरुवासरे राजभवन–प्राङ्गणे लखनौ–परिसरस्थाभ्यः 2
कन्या पूजन करती राज्यपाल आनंदीबेन पटेल


कन्यापूजन कार्यक्रम में बैठी राज्यपाल आनंदीबेन पटेल,चंपत राय व क्षेत्र प्रचारक अनिल


राजभवन में कन्या पूजन


कन्यानां संरक्षणं समाजस्य प्रत्येक–कुटुम्बस्य दायित्वम् इति क्षेत्रप्रचारकः।“मा” इति शब्दः भारतस्य लोके योगदानम् इति चम्पत रायः।

लखनऊनगरम् 25 सितम्बरमासः (हि.स.) नवरात्रोत्सवे प्रेरणा–परिवारस्य पक्षेण गुरुवासरे राजभवन–प्राङ्गणे लखनौ–परिसरस्थाभ्यः 251 सेवा–बस्तिभ्यः आगतानां 5100 अधिकानां कन्यकानां पूजनं कृतम्।

अस्मिन् अवसरे राज्यपालः आनन्दीबेन पटेल अवदत्—“अस्माभिः कन्यानां कृते कार्यं कर्तव्यम्। अस्माकं कन्याः चरित्रवत्यः, शीलवन्त्यः, शिक्षिताश्च भवितुमर्हन्ति। अद्यापि वयं निम्न–मध्यवर्गस्य समीपे न प्राप्ताः। तेषां मध्ये वृहदाकार्यं करणीयम्। अद्यापि बालकाः भिक्षाटनं कृत्वा उदरं पूरयन्ति।”

श्रीराम–जन्मभूमेः तीर्थ–क्षेत्र–न्यासस्य महामन्त्री चम्पत रायः उक्तवान्—“बालिकाः भगवत्याः स्वरूपाः। नवरात्रे सर्वदेशे देवी–पूजनं भवति। ‘मा’ इति शब्दः भारतस्य जगति दानम्। अस्माकं देशे भूमाता, गोमाता, गङ्गामाता इत्यादिभिः संबोधनं क्रियते। यस्मै परममानं दातव्यम् तेन सह ‘मा’ शब्दस्य प्रयोगः क्रियते। अद्य 25 सितम्बरमासे पण्डित–दीनदयाल–उपाध्यायस्य जयन्ती अस्ति। तेन समाजाय ‘एकात्म–मानववादः’ इत्याख्यं दर्शनं दत्तम्। यथा शरीरम् एकं तथा समाजोऽपि एकः एव।”

राष्ट्रीय–स्वयंसेवक–सङ्घस्य क्षेत्र–प्रचारकः अनिलः उक्तवान्—“बालिकाः दुर्गायाः स्वरूपाः। भारतस्य सनातन–परम्परायां नारीणां विशेषं महत्त्वं विद्यते। अस्माकं देशे कन्याः दुर्गारूपेण द‍ृष्टाः। कन्यानां संरक्षणं समाजस्य प्रत्येक–कुटुम्बस्य दायित्वम्। सर्वकारं ‘बेटी बचाओ बेटी पढ़ाओ’ इति अभियानं सञ्चालयति। अद्य समाजोऽपि बालिका–शिक्षायाः विषये सजगः जातः। कन्यानां संरक्षणं कथं साध्यं? प्रत्येक–बालिकायाः शिक्षा कथं सुलभा भवेत्? तासां शिक्षा–स्वास्थ्ययोः विषये चिन्ता कृत्वा कथं प्रगतौ भवेम। एतेषां कृते सर्वेषां प्रयत्नाः आवश्यकाः।”

प्रेरणा–परिवारस्य अध्यक्षः गुंजित–कालरः उक्तवान्—“मार्च् 2024 तमे मासे लखनऊ–नगरस्य 11 युवदम्पत्योः सहयोगेन प्रेरणापरिवारः संस्थापितः। अस्य परिवारस्य उद्देश्यः आगामिपीढीनां सनातनीपरम्पराभ्यः मूल्येभ्यश्च सम्बद्धिः।”

राजभवनं प्राप्तानां कन्यानां पाद–प्रक्षालनं कृत्वा तिलकं दत्वा च चुनरीं प्रदाय स्वागतं कृतम्। कन्याभ्यः मातुः चुनरी, भोजनप्रसादथालिका, दक्षिणा, उपहारस्वरूपं टिप्पणी पुस्तिकालेखनीपुस्तकं च दत्तम्। बालकैः सांस्कृतिक–कार्यक्रमाः देवी–गीतानि च प्रस्तुतानि।

एते महनीयाः उपस्थिताः आसन्—प्रान्तप्रचारकः कौशलः, विश्वहिन्दूपरिषदः क्षेत्रसंगठनमन्त्री गजेन्द्रसिंहः, सङ्घस्य क्षेत्रप्रचारप्रमुखः सुभाषः, सहक्षेत्रप्रचारप्रमुखः मनोजकान्तः, क्षेत्रसङ्घचालकः कृष्णमोहनः, प्रान्तसङ्घचालकः सरदारस्वर्णसिंहः, कार्यक्रमस्य सर्व–व्यवस्थाप्रमुखः प्रशान्तभाटिया, सामाजिकसमरसताविभागस्य प्रान्तसंयोजकः राजकिशोरः, प्रान्तसम्पर्कप्रमुखः गङ्गासिंहः, विभागप्रचारकः अनिलः, विहिपप्रान्तसंगठन–मन्त्री विजयप्रतापः, महिला–आयोगस्य उपाध्यक्ष्या अपर्णा–यादवः, पूर्वमहापौरः संयुक्ता–भाटिया, विराजसागरदासः, राज्यसूचनायुक्तः पी. एन. द्विवेदी, डा. दिलीप–अग्निहोत्रिः च।

कार्यक्रमस्य संचालनं प्रेरणा–परिवारस्य सचिव्या शिखा–भार्गव्या, डा. भूपेन्द्रेण च कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता