मध्यप्रदेशे उपमुख्यमन्त्री शुक्लेन अद्य विशेष-स्वास्थ्यशिविरस्य शुभारम्भः करिष्यते
भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशे उपमुख्यमन्त्री राजेन्द्रः शुक्लः अद्य गुरुवासरे भोपाल-नगरस्थे सरोजिनी-नायडू शासकीय-स्वशासी कन्या-महाविद्यालये “स्वस्थ-नारी–सशक्त-परिवार” अभियानान्तर्गते विशेष-स्वास्थ्य-शिविरस्य शुभारम्भं करिष्यति। अस्मि
राजेन्द्र शुक्ल (फाइल फोटो)


भोपालम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशे उपमुख्यमन्त्री राजेन्द्रः शुक्लः अद्य गुरुवासरे भोपाल-नगरस्थे सरोजिनी-नायडू शासकीय-स्वशासी कन्या-महाविद्यालये “स्वस्थ-नारी–सशक्त-परिवार” अभियानान्तर्गते विशेष-स्वास्थ्य-शिविरस्य शुभारम्भं करिष्यति।

अस्मिन् शिविरे छात्राणां शिक्षयित्रिणां च कृते स्वास्थ्य-परीक्षण-सेवाः प्रदास्यन्ते। तत्र उच्च-रक्तचापपरीक्षणम्, मधुमेहनिदानम्, कर्कटरोगपरीक्षणम्, सिकल्-सेल्–स्क्रीनिङ्, रक्त-अल्पता-परिशीलनम्, किशोर्याः पोषण-जागरूकता, क्षय-रोग-परीक्षणं च समाविष्टम्। एवं च “आयुष्मान् भारत” डिजिटल् हेल्थ् आईडी (आभा) निर्माण-सेवापि उपलभ्यिष्यते।

जनसम्पर्क-अधिकारी अंकुशः मिश्रः निवेदितवान् यत् जागरूकता-गतिविधिषु “खुलके पृच्छत” इति विशेषज्ञैः सह संवादः, स्वास्थ्य-प्रश्नोत्तरी, क्रीडा-क्रियाः, तथा “थोडी सेहत्, थोडी मस्ती” इत्यस्य विषयस्य अन्तर्गतं *जुम्बा*–सत्रम् अपि आयोज्यते। शिविरस्थले स्वैच्छिक-रक्तदानाय व्यवस्था भविष्यति। अस्य शिविरस्य प्रमुखः उद्देश्यः— छात्राणां शिक्षयित्रिणां च मध्ये स्वास्थ्य-जागरूकता-वृद्धिः, मिथ्यानां निराकरणं, स्वस्थ-जीवन-शैली-प्रोत्साहनं च।

हिन्दुस्थान समाचार / अंशु गुप्ता