Enter your Email Address to subscribe to our newsletters
पीएमएफएमई-योजनायाः अन्तर्गतं खाद्यप्रसंस्करणक्षेत्रे सूक्ष्मपरियोजनाभ्यः प्रायः 26 सहस्रलाभार्थिभ्यः 770 कोट्यधिकं ऋणाधारितं साहाय्यं प्रदास्यते।
नवदेहली, 25 सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदीना अद्य सायङ्काले उत्तरप्रदेश-राजस्थानयोः भ्रमणानन्तरं राष्ट्रियराजधान्यां देहल्यां भव्ये भारतमण्डपे वर्ल्ड फूड इंडिया-2025 इत्यस्य उद्घाटनं करिष्यति। सायं प्रायः 6:15 वादने भारतमण्डपे कार्यक्रमस्य श्रीगणेशानन्तरं प्रधानमन्त्री मोदी उपस्थितान् जनान् सम्बोधयिष्यति। भारतसर्वकारस्य पत्र एवं सूचना कार्यालयः (पीआईबी) विज्ञप्त्या माध्यमम् अस्य कार्यक्रमस्य विवरणं स्वस्य पोर्टलमाध्यमेन तथा च भारतीयजनतापार्टी (भाजपा) अपि स्वस्य एक्स (X) हैण्डले सचित्रेण परामर्शं कृतम्।
पीआईबी इत्यस्य विज्ञप्तिनुसारं, अस्य समापनं 28 सितम्बरदिनाङ्के भविष्यति। अस्मिन् कार्यक्रमे खाद्यप्रसंस्करणक्षेत्रे, खाद्यक्षेत्रे स्थिरतायां, पौष्टिक-जैविकखाद्योत्पादने च भारतस्य सामर्थ्यं प्रदर्श्यते। वर्ल्ड फूड इंडिया इत्यस्मिन् प्रधानमन्त्री मोदी सूक्ष्मखाद्यप्रसंस्करणोद्यम-औपचारिकीकरण (पीएमएफएमई) योजनायाः अन्तर्गतं खाद्यप्रसंस्करणक्षेत्रे 2510 कोटिरूप्यकाधिकस्य सूक्ष्मपरियोजनानां कृते प्रायः 26,000 लाभार्थिभ्यः 770 कोटिरूप्यकाधिकस्य ऋण-आधारित-सहायतां प्रदास्यति।
वर्ल्ड फूड इंडिया इत्यस्मिन् सीईओ-गोलमेज-गोष्ठ्यः, तकनीकी-सत्राणि, प्रदर्शन्यः तथा च बी2बी (व्यवसाय-टू-व्यवसाय), बी2जी (व्यवसाय-टू-सर्वकार), तथा जी2जी (सर्वकार-टू-सर्वकार) गोष्ठीसहिताः अनेकाः व्यावसायिक-संवादाः भविष्यन्ति। अस्मिन् फ्रान्स, जर्मनी, ईरान, ऑस्ट्रेलिया, दक्षिणकोरिया, डेनमार्क, इटली, थाईल्याण्ड, इण्डोनेशिया, ताइवान, बेल्जियम, तन्जानिया, इरिट्रिया, साइप्रस, अफगानिस्थान, चीन, तथा अमेरिकासहिताः 21 देशानाम् 150 अन्तर्राष्ट्रिय-सहभागिनः अपि भविष्यन्ति।
भारतमण्डपे आयोजिते वर्ल्ड फूड इंडिया इत्यस्मिन् अनेकाः विषयाधाराः सत्राणि अपि भविष्यन्ति। तेषु “भारतं वैश्विक-खाद्यप्रसंस्करण-केन्द्ररूपेण”, “खाद्यप्रसंस्करणक्षेत्रे स्थायित्वं तथा नेट जीरो”, “खाद्यप्रसंस्करणे अग्रणी”, “भारतस्य पालतुपशु-आधारित-खाद्य-उद्योगः”, “पोषण-स्वास्थ्ययोः कृते प्रसंस्कृतानि खाद्यवस्तूनि”, “पादप-आधारितानि खाद्यवस्तूनि”, “न्यूट्रास्यूटिकल्स”, “विशिष्ट-खाद्यवस्तूनि” इत्यादिषु विविधविषयेषु चर्चा भविष्यति। अस्मिन् 14 मण्डपाः भविष्यन्ति, येषु प्रत्येकं विशिष्टविषयेषु समर्पितः भविष्यति। कार्यक्रमे प्रायः 1,00,000 आगन्तुकाः समाविष्टाः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता