राष्ट्रपतिः अद्य मथुरा–वृन्दावने, विशेषेण रेलयानेन कान्हाधाम प्राप्स्यति
नवदेहली, 25 सितम्बरमासः (हि.स.)। भारतस्य राष्ट्रपत्नी द्रौपदीमुर्मु: अद्य राजधान्याः देहलीतः सफदरजङ्ग् रेलस्थानकात् विशेषेण रेलयानेन वृन्दावनम् (उत्तरप्रदेशे) आगमिष्यति। वृन्दावनवासकाले सा श्रीबांकेबिहारीमन्दिरम्, निधिवनं कुब्जाकृष्णमन्दिरञ्च सम्पूज्
राष्ट्रपति द्रौपदी मुर्मु। फोटो - फाइल


नवदेहली, 25 सितम्बरमासः (हि.स.)। भारतस्य राष्ट्रपत्नी द्रौपदीमुर्मु: अद्य राजधान्याः देहलीतः सफदरजङ्ग् रेलस्थानकात् विशेषेण रेलयानेन वृन्दावनम् (उत्तरप्रदेशे) आगमिष्यति। वृन्दावनवासकाले सा श्रीबांकेबिहारीमन्दिरम्, निधिवनं कुब्जाकृष्णमन्दिरञ्च सम्पूज्य दर्शयिष्यति। वृन्दावने सा सुदामाकुटीम् अपि गमिष्यति। राष्ट्रपत्नी मुर्मु मथुरायां श्रीकृष्णजन्मस्थानस्य दर्शनं पूजा च करिष्यति। एषा सूचना भारतसर्वकारस्य पत्रसूचनाकार्यालयेन (पी.आई.बी.) विज्ञप्त्या पोर्टलेन प्रकाशिताभूत।

उक्तं यत् द्वाभ्यां वर्षाभ्यां अनन्तरं राष्ट्रपत्नी द्रौपदी मुर्मु रेलयानयात्रां करिष्यति। सा जूनमासस्य 2023 पूर्वमेव विशेषेण रेलयानेन भुवनेश्वरात् स्वगृहनगरं रायरङ्गपुरं (ओडिशाराज्ये) गतवती। अद्य द्वाभ्यां वर्षाभ्यां त्रिभिश्च मासैः अनन्तरं पुनः रेलयानयात्रां करिष्यति। सुरक्षायाः निमित्तं वृन्दावनगमनमार्गे ये ये रेलस्थानकाः उपरि सेतवः च सन्ति तेषु आर.पी.एफ्, जी.आर्.पी. इत्येतयोः दलस्य सैनिकाः नियुक्ताः। राष्ट्रपत्नी प्रातः 10 वादने वृन्दावनं प्राप्स्यति। विशेषं तद्रेलयानं फरीदाबादं पल्वलञ्च गत्वा वृन्दावनं यास्यति।

रेलवेस्त्रोतानुसारं राष्ट्रपत्नी सफदरजङ्ग् रेलस्थानकात् प्रातः 8:30 वादने विशेषेण रेलयानेन प्रस्थानं करिष्यति। सा सायं मथुरातः पुनः देहलीं प्रत्यागमिष्यति। सा सायं 5:15 वादने मथुराजङ्क्शनात् आरुह्य सायं 6:45 वादने देहलीस्थितं सफदरजङ्ग् रेलस्थानकं प्राप्स्यति। एष विशेषः रेलयानः महाराजाएक्स्प्रेस् इत्यस्य रेक् इति निगद्यते। एषा रेलगाड़ी अतीव आधुनिकसुविधाभिः युक्ता। रेलयानं 16 कोचयुक्तम् अस्ति। राष्ट्रपत्याः सह तस्याः कर्मचारीणां वरिष्ठाधिकारीणोऽपि उपस्थास्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता