Enter your Email Address to subscribe to our newsletters
नवदेहली, 25 सितंबरमासः (हि.स.)। महाराष्ट्रस्य मराठवाडा–प्रदेशे गतचत्वारः दिनेभ्यः निरन्तरं जाता अतिवृष्टेः कारणेन अष्ट जनानां मृत्युश्च शताधिकानां गृहानां क्षतिग्रस्तता च अभवत्। अस्मिन् दुःखदायके प्रसङ्गे लोकसभा–प्रतिपक्षनेता राहुलगान्धिः शोकं व्यक्तवान्।
राहुलगान्धिना ‘एक्स्’ इत्यस्मिन् लिखितम् यत्—मराठवाडायां जातया अतिवृष्ट्या जनहानिः, विशाल–स्तरे कृषिक्षेत्रस्य च नाशः इति वार्ता अत्यन्तं दुःखदायिनी। अस्मिन् कठिनसमीये मम संवेदनाः सर्वेषां प्रभावित–कुटुम्बानां सह वर्तन्ते। तेन सरकारं प्रशासनं च उद्दिश्य निवेदनं कृतम् यत्—राहत्याः कार्येषु शीघ्रता कार्या, कृषिनाशस्य मूल्याङ्कनं कृत्वा कृषकानां पूर्णा सहायता दातव्या च। तेनैव कांग्रेस्–नेतृभ्यः कार्यकर्तृभ्यश्च आवाहनं कृतम् यत्—प्रशासनस्य सहयोगः कर्तव्यः, आवश्यकेभ्यः सर्वथा सहायता दातव्या च।
मराठवाडा–प्रदेशे लातूर–जनपदे त्रीणि, बीड्–जनपदे द्वे, छत्रपति–संभाजीनगर–नांदेढ्–धाराशिव्–जनपदेभ्यः एकैकस्य जनस्य मृत्युः विद्युत्पातेन, निमग्नतया, अन्यैश्च कारणैः अभवत्। सितम्बर् 20 तः निरन्तरा वर्षा जातत्वात् प्रपातानां पूरणेन प्रलय–स्थितिः उत्पन्ना। धाराशिव्–जनपदे सप्तशताधिकानि गृहानि क्षतिग्रस्तानि, त्रिंशत्सहस्राधिक–हेक्टेयर्–भूमौ लघुपक्षे कृषिः नष्टा च अभवत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता