Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 25 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य उद्योगानां वैश्विकं मंचं दातुम् ‘उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शनम्–२०२५’ गुरुवासरे आरब्धम्। अद्य प्रातः प्रधानमन्त्रिणा नरेन्द्रमोदिना व्यापार-प्रदर्शनस्य उद्घाटनं कृतम्। उद्यमिनः संबोधितुं प्रधानमन्त्री भिन्नभिन्नानि विक्रयकोष्ठकः अपि गतवान्।
मुख्यमन्त्री योगी आदित्यनाथेन प्रधानमन्त्रिणः स्वागतं कृतम्। तेन प्रधानमन्त्रिणे फिरोजाबादस्य शिल्पिभिः निर्मितां माता-दुर्गायाः काच-प्रतिमा उपहाररूपेण दत्ताम्।
एक्स्पो-मार्ट् इत्यस्य दशसु प्रकोष्ठेषु एषा प्रदर्शनी प्रवर्तते। समीपे द्विसहस्रपञ्चशतं (२५००) संस्थानः अत्र स्वसेवाभिः सम्बन्धिनः विक्रयकोष्ठकः स्थाप्य प्रदर्शयन्ति। व्यापार-प्रदर्शने देश-विदेशेभ्यः क्रेताः बहुसंख्यया आगच्छन्ति। उद्घाटन-समये सांसदः डॉ. महेशशर्मा, मन्त्री नन्दगोपालनन्दी, राकेशसचान् इत्यादयः उत्तरप्रदेशस्य अनेकाः मन्त्री, सांसदाः, वरिष्ठ-अधिकारीणः च उपस्थिताः। रूस् अन्ताराष्ट्रीय-व्यापार-प्रदर्शनस्य देश-सहयोगी अस्ति।
आरक्षक-आयुक्त्या लक्ष्मीसिंहया उक्तम् यत् सुरक्षायाः दृढाः प्रबन्धाः कृताः। समीपे पञ्चसहस्रं आरक्षक-कर्मिणः नियोजिताः, सुरक्षा-व्यवस्थां दृष्ट्वा निषेधाज्ञा च प्रकाशित कृता। अद्य विशिष्ट-अतिथीनाम् आगमनस्य कारणेन विमानाणु, वायुगोलकाः, दूरसञ्चालक-संचालित-माइक्रोलाइट्-वायुपोताः, पैराग्लाइडरादयः उड्डयन-यन्त्राणि च चतुर्विंशतिहोरापर्यन्तं पूर्णतः निषिद्धानि। एषा निषेधाज्ञा बुधवासरस्य मध्यरात्रेः आरभ्य गुरुवासररात्रेः द्वादशवादनपर्यन्तं प्रवर्तते।
हिन्दुस्थान समाचार / Dheeraj Maithani