पंजाब, हिमाचल प्रदेश, उत्तराखंड इत्येषां कृषकेभ्यः प्रधानमंत्री कृषक सम्मान निधेः 21तमः राशिः प्रेषितः
नवदिल्ली, 26 सितंबरमासः (हि.स.)।केन्द्रीयकृषिः किसानकल्याणमन्त्रालयश्च ग्रामीणविकासमन्त्रालयश्च प्रधानमन्त्रीकिसानसम्माननिधियोजना (PM-Kisan) अन्तर्गतं पंजाब-हिमाचलप्रदेश-उत्तराखण्डराज्यानां सप्तविंशतिलक्षाधिककृषकाणां खातेषु गुरुवासरे एकविंशतितमकिस्ति
हिमाचल प्रदेश, पंजाब, उत्तराखंड के किसानों को पीएम किसान सम्मान निधि की 21वीं किस्त  जारी करते हुए शिवराज सिंबह


नवदिल्ली, 26 सितंबरमासः (हि.स.)।केन्द्रीयकृषिः किसानकल्याणमन्त्रालयश्च ग्रामीणविकासमन्त्रालयश्च प्रधानमन्त्रीकिसानसम्माननिधियोजना (PM-Kisan) अन्तर्गतं पंजाब-हिमाचलप्रदेश-उत्तराखण्डराज्यानां सप्तविंशतिलक्षाधिककृषकाणां खातेषु गुरुवासरे एकविंशतितमकिस्तिरूपेण पञ्चशतचत्वारिंशत्कोट्यधिकरूप्यकाणि निर्गतवन्तः।

कृषिभवने आयोजिते वर्चुअल-समारोहे कृषिमन्त्री शिवराजसिंहः अवदत् यत्—प्रधानमन्त्रिणः नरेन्द्रमोदी नेतृत्वे कृषिकिसानकल्याणमन्त्रालयं ग्रामीणविकासमन्त्रालयं च आपदापीडितेषु राज्येषु दृढतया स्थितानि। येषां गृहानि विनष्टानि, तेषां प्रधानमन्त्रीआवासयोजना-ग्रामीण अन्तर्गतं निवासं प्रदास्यन्ति। सह मनरेगायां शतपञ्चाशद्दिनानां रोजगारः दास्यते।

केन्द्रीयमन्त्री शिवराजसिंहः अवदत्—पंजाब-हिमाचल-उत्तराखण्डं वा अन्ये राज्याः, सर्वेषु अस्मिन् संकटकाले मंत्रालयं तेषां पक्षे स्थितम्। कृषकस्य बीजसम्बन्धीप्रश्ने, पंजाबराज्याय तेलबीजं रेपसीडं सरषपं च द्वात्रिंशत्कोट्यधिकरूप्यकाणां मूल्येन आवण्टितम्। क्लस्टररिमोंटेशन अन्तर्गतं विशेषमावण्टनं करिष्यन्ति। गोधूमबीजाय अपि प्रायः चतुर्सप्ततिकोट्यधिकरूप्यकाणि दत्तानि। येषां गृहानि पूर्णतया नष्टानि, तेभ्यः प्रधानमन्त्रीआवासयोजना अन्तर्गतं नवानिवासनिर्माणाय वित्तं दास्यते। अस्मिन् योजनायां लक्षद्वादशसहस्ररूप्यकाणि, शौचालयनिमित्तं पृथकराशिः, तथा मनरेगायां पञ्चनवतिः दिनानां वेतनम् अपि दास्यते। तत्र श्रमिकभ्रातृभगिन्यः यदि रोजगारं आवश्यकं मन्यन्ते, मनरेगायां शतदिनानां वार्षिकरोजगारः पूर्वमेव अस्ति, यः एतेषु आपदापीडितेषु राज्येषु शतपञ्चाशद्दिनान् यावत् वर्धितः।

सः अवदत्—प्रधानमन्त्रीमोदी पैकेजस्य घोषणां कृतवान्। तस्य एव अंशः अस्ति प्रधानमन्त्रिकिसानसम्माननिधेः वित्तस्य पूर्वमेव कृषकाणां खातेषु हस्तान्तरणम्, यत् तेन ताः प्राकृतिकआपदया पीडिताः कृषकाः कृष्यर्थं वा अन्यकार्येषु वा उपयोजयितुं शक्नुवन्ति।

पंजाबे एकादशलक्षलक्ष्याधिकदशसहस्रकृषकाणां खातेषु द्विशतद्वादशकोट्यधिकरूप्यकाणि, हिमाचले अष्टलक्षाधिककृषकाणाम् खातेषु षट्शष्ट्यधिकशतकोट्यः रूप्यकाणि, उत्तराखण्डे सप्तलक्षनवत्यधिकसहस्रकृषकाणां खातेषु षट्पञ्चाशदधिकशतकोट्यः रूप्यकाणि प्रधानमन्त्रिकिसानयोजनायाः किस्तिरूपेण हस्तान्तरीकृतानि।

एतेषां राशीनां संयोगेन अस्याः योजनायाः अन्तर्गतं एतेषां त्रयाणां राज्येषु कृषकेभ्यः त्रयोदशसहस्रषट्शतषड्विंशतिकोट्यधिकरूप्यकाणि अद्यावधि प्रदत्तानि।

अस्मिन्नवसरे कृषिभवने केन्द्रीयकृषिसचिवः डॉ. देवेशचतुर्वेदी अन्ये वरिष्ठाधिकारीणः च उपस्थिताः आसन्। त्रयाणां राज्येषु कृषिमन्त्रिणः, उच्चाधिकारीणश्च वर्चुअलरूपेण सम्बद्धाः।

---------------

हिन्दुस्थान समाचार