भगवतः रामस्य वनगमनलीलायां भक्ताः भावविभोराः अभवन्
भगवतः रामस्य वनगमनलीलायां भक्ताः भावविभोराः अभवन् अयोध्यायाम्, 26 सितम्बरमासः (हि.स.)। अयोध्याधाम्नः ऐतिहासिकं पौराणिकं भगवदाचार्यस्मारकसदने षष्ठे दिवसे गुरुवासरे कैकेय्याः कोपगृहं, भगवानराम-सीतालक्ष्मणानां च वनगमनलीलाम् अतीव सुन्दररूपेण नाट्यरूपेण
भगवान राम के वनगमन लीला मंचन


भगवतः रामस्य वनगमनलीलायां भक्ताः भावविभोराः अभवन्

अयोध्यायाम्, 26 सितम्बरमासः (हि.स.)। अयोध्याधाम्नः ऐतिहासिकं पौराणिकं भगवदाचार्यस्मारकसदने षष्ठे दिवसे गुरुवासरे कैकेय्याः कोपगृहं, भगवानराम-सीतालक्ष्मणानां च वनगमनलीलाम् अतीव सुन्दररूपेण नाट्यरूपेण प्रदर्शिता। तया लीलया उपस्थितसाधुसन्तभक्तजनाः भावविभोराः अभवन्। एषा रामलीला सन्ततुलसीदासरामलीलासमितेः तत्वाधानेन आयोजिता। प्रतिवर्षं शारदीयनवरात्रे आयोजनं भवति। तस्मिन् परम्परानुसारेण अस्मिन् वर्षेऽपि विगते 20 सितम्बरतः रामलीला प्रारब्धा। 4 अक्टूबरपर्यन्तं रामलीलायाः आयोजनं भविष्यति।

एतस्मिन् 15 दिवसीय रामलीला श्रीरामराज्याभिषेक-वानरविदायिसहितेन समाप्यते। ततः पूर्वं सन्तमहन्तः, धर्माचार्याः, विशिष्टजनाश्च भगवानराम-सीतयोः पूजनार्चनं कृत्वा आरतीं प्रदत्तवन्तः। अनन्तरं सन्ततुलसीदासरामलीलासमित्या आगतानां सन्तमहन्तां धर्माचार्याणां च विशिष्टजनानां चाङ्गवस्त्रैः अभिनन्दनं कृतम्। ततः समित्या कैकेय्याः कोपगृहं रामस्य च वनगमनलीला अतीव रमणीयं मनोरमं च प्रदर्शिता। श्रौतृजनाः भावविभोराः अभवन्। सर्वत्र रामलीलायाः उल्लासः व्याप्यते स्म। रात्रौ दीर्घकालपर्यन्तं रामलीला प्रवृत्ता। भक्तजनाः अत्यूत्साहपूर्वकं रामलीलायाः आनन्दं प्राप्नुवन्।

अस्मिन्नवसरे सन्ततुलसीदासरामलीलासमितेः कार्यकारीअध्यक्षः रसिकपीठाधीश्वरः श्रीमहन्तजनमेजयशरणमहाराजः उक्तवान् यत् भगवदाचार्यस्मारकसदने रामलीला अतीव सुन्दररूपेण प्रदर्श्यते। सा परम्परागतं सन्तलीलारूपं च। पौराणिकं ऐतिहासिकं च। प्रतिवर्षं शारदीयनवरात्रे एषा रामलीला भवति।

रामलीलासमितेः महामन्त्री धर्मसम्राटः श्रीमहन्तज्ञानदासमहाराजस्य उत्तराधिकारी सङ्कटमोचनसेनाध्यक्षः स्वामीसञ्जयदासमहाराजः उक्तवान् यत् सन्ततुलसीदासरामलीलासमिता अतीव प्राचीनसमिता। यया विगत 80 वर्षपर्यन्तं भगवदाचार्यस्मारकसदने रामलीलायाः आयोजनं प्रवृत्तम्। अत्र शास्त्रानुसारतः रामलीला प्रदर्श्यते।

अस्मिन् अवसरे समितेः उपाध्यक्षः नागारामलखनदासः, श्रृङ्गिरषिपीठाधीश्वरः महन्तहेमन्तदासः, पहल्वानबाबामनीरामदासः, व्यवस्थापकः राजीवरञ्जनपाण्डेयः, व्यवस्थापकः महन्तधनुषधारीशुक्लः, पुजारिराजनदासः, तीर्थपुरोहितसमाजस्य अध्यक्षः ओम् प्रकाशपाण्डेयः, मुख्तारः अजयश्रीवास्तवः, मन्त्री शिवंश्रीवास्तवः, व्यापारीनेता पंकजगुप्तः, रमेशगुप्तः पूर्वचेयरमैनः, व्यापारीनेता नन्दलालगुप्तः, विकासगुप्तः, अञ्चलगुप्तः इत्यादयः अन्ये साधुसन्तभक्तजनाश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani