Enter your Email Address to subscribe to our newsletters
मैसूरः 26 सितंबरमासः (हि.स.)। कन्नड-साहित्यस्य महान् लेखकः, उपन्यासकारः, दार्शनिकः, पटकथा-लेखकः च डॉ. एस.एल. भैरप्पः शुक्रवारदिने पंचतत्त्वे विलीनः।
राजकीयसम्मानैः सह हिन्दुधार्मिकानुष्ठानानुसारं तस्य अन्त्येष्टिसंस्कारः सम्पन्नः। कन्नड-सारस्वत-जगति प्रसिद्धः, सरस्वती-सम्मान-विभूषितः, पद्मभूषणसम्मानितः च डॉ. भैरप्पः चामुण्डीपर्वतस्य पादप्रदेशे स्थिते श्मशाने राज्य-सरकारनिर्धारितैः सर्वैः सम्मानैः धार्मिककर्मभिः च अन्त्येष्टिं प्राप।
अद्य प्रथमं तस्य पुत्री सहाना विजयकुमार पार्थिवशरीराय श्रद्धाञ्जलिं दत्तवती। ततः उभौ पुत्रौ रविशंकरः, उदयशंकरः च श्रद्धाञ्जलिं अर्पयताम्।
ब्राह्मण-हिन्दु-परम्परानुसारं अन्त्येष्टेः पूर्वं पार्थिवशरीरं तिरङ्ग-ध्वजेन आवृत्य राजकीयसम्मानः प्रदत्तः। ततोऽनन्तरं आरक्षकबृन्देन वादनं कृतं, राष्ट्रध्वजं च औपचारिकतया सुपुत्रेभ्यः प्रदत्तम्।
अन्त्येष्टौ केन्द्रसरकारस्य प्रतिनिधिरूपेण मन्त्री प्रह्लादजोशी, राज्य-मन्त्री एच.सी. महादेवप्पा, के. वेंकटेश, पूर्व-सांसदः प्रतापः सिम्हा इत्यादयः अनेके मान्यवराः उपस्थिताः आसन्। केन्द्रीय-मन्त्रिणः अपि भैरप्पाय श्रद्धाञ्जलिं समर्पितवन्तः।
डॉ. भैरप्पः कन्नड-साहित्ये साहित्य-मायावी इव ख्यातः आसीत्। ते युवानां मनसि साहित्यभावनां जागरूकां कर्तुं सफलाः अभवन्। तेन दीर्घसाहित्यिकजीवने कन्नड-साहित्य-जगतः कृते २५ उपन्यासाः, ६ निबन्धसङ्ग्रहाः, १ आत्मकथा च प्रदत्ता। तस्योपन्यासानामाधारेण ४ चलचित्राणि अपि निर्मितानि। तस्य कतिचन उपन्यासाः ४० भाषासु अनूदिताः सन्ति।
दशकानां कालपर्यन्तं कन्नड-साहित्य-जगतं प्रकाशयन् भैरप्पस्य निधनं अपूरणीयं क्षतं साहित्यजगतेन स्वीकृतम्। अस्मिन्नेव काले राज्य-सरकारेण घोषितं यत् मैसूरु-नगरे भैरप्पस्मृत्यर्थं स्मारकस्य निर्माणं करिष्यते।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani