Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 26 सितंबरमासः (हि.स.)। उपराज्यपालः मनोजः सिन्हा अद्य शुक्रवासरे राजभवने एकीकृतमुख्यालयस्य (यूएचक्यू)सभायाः अध्यक्षतां करिष्यति।
सूत्रैः सूचितं यत् सभा प्रातः 11 वादने आरभ्यिष्यते। एकीकृतमुख्यालयं नामकं तु जम्मू-कश्मीरप्रदेशे सुरक्षा-गोपनसंस्थानां च उच्चकमान्ड् अस्ति। अस्मिन् उपराज्यपालः क्षेत्रस्य वर्तमान-सुरक्षापरिदृश्यस्य समीक्षा करिष्यति। अपि च, शैत्यऋतौ करणीयतासु, पाकिस्तानस्य नियंत्रणरेखायां हालकाले कृतेषु कार्येषु, अन्येषु च महत्वपूर्णेषु विषयेषु चर्चां भविष्यति।
सूत्राणि उक्तवन्ति यत् उपराज्यपालः सिन्हा शीर्ष-अधिकृतैः सह वर्तमान-सुरक्षास्थितिं ज्ञास्यति, यस्मिन् नियंत्रणरेखा च केन्द्रशासितप्रदेशे अन्तर्राष्ट्रीयसीमाः च सम्मिलिताः।
अस्मिन् महत्वपूर्णे सुरक्षा-समीक्षा-सम्मेलने सेनायाः उत्तरीकमान्ड्-नायकः लेफ्टिनण्ट्-जनरल् प्रतीकः शर्मा, जम्मू-कश्मीरस्य आरक्षक-महानिदेशकः नलिनः प्रभात्, मुख्यसचिवः अटलः डुलू, अर्धसैनिकबलानां खुफियासंस्थानानां च प्रमुखाः सम्मिलिष्यन्ति।
स्मरणीयं यत् उपराज्यपालः सिन्हा मेय् मासे ऑपरेशन् सिन्दूरस्य सफलतायाः अनन्तरं यूएचक्यू-सभायाः अध्यक्षतां पूर्वम् अपि कृतवान्। तस्मिन् सभायाम् सः सुरक्षा-संस्थानानि प्रति आतंकवादिनां निराकरणं, तेषां समर्थनसमूहानां च विनाशं कृते सूक्ष्मं गोपनसूचनाधारितं अभियानम् आरभितुम् आदेशं दत्तवान् आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता