Enter your Email Address to subscribe to our newsletters
- अश्लीलगीतानां वादनं न करणीयम्, स्थले आरक्षकाबलस्य नियोजनं च करणीयम्
लखनऊनगरम्, 26 सितम्बरमासः (हि स) विश्वहिन्दुपरिषद इत्येषा जनपदप्रशासनं प्रार्थयति यत् नवरात्रि-उत्सवे गरबा-डाण्डिया-कार्यक्रमेषु केवलं हिन्दूनां प्रवेशस्य अनुमतिः दीयन्तु इति। बजरङ्गदलस्य मण्डल-संयोजकस्य शुभं सिंह गौर इत्यस्य नेतृत्वे एकः प्रतिनिधिदलः शुक्रवासरे मण्डल-समाहर्ता उद्दिश्य स्मारकं प्रेषितवान्। बजरङ्गदलस्य कार्यकर्तारः मण्डल-दंडाधिकारिणः अनुपस्थितौ ए.डी.एम. जङ्ग बहादुर सिंह इत्यस्मै स्मारकं समर्पितवन्तः। प्रतिनिधिमण्डले विश्वहिन्दु परिषद् मण्डलस्य मन्त्री धीरज सोनकर, बजरङ्गदलस्य सहमण्डल-संयोजकः शिवजीत सिंह, मण्डल-गोरक्षणप्रमुखः सचिन्, अखिलेश दीक्षितः च आसन्।
स्मारके अवदत् यत् नवरात्रौ राजधान्यां लखनऊ-नगरे तथा समीपस्थेषु क्षेत्रेषु गरबा, डाण्डिया इत्यादीनि धार्मिककार्यक्रमाः आयोज्यन्ते इति। अनावश्यकः जनसमूहः, लव जिहाद, अश्लीलगीतानां प्रयोगः, एतादृशेषु कार्यक्रमेषु असामाजिकानां तत्त्वानां उपस्थितिः च धार्मिकभावनाः व्रणयन्ति। वी.एच.पी. इत्यनेन प्रशासनं प्रति आग्रहः कृतः यत् एतादृशेषु कार्यक्रमेषु परिचयपत्राणि अनिवार्यानि भवेयुः, केवलं हिन्दुजनाः एव कार्यक्रमेषु प्रवेष्टुं अनुमन्यन्ते, रात्रिः 10 वादनेः अनन्तरं कार्यक्रमः न भवेत् इति। वी.एच.पी इत्यनेन अपि आग्रहः कृतः यत् एतेषु कार्यक्रमेषु अश्लीलगीतानां वादनं न करणीयम्, तथा च स्थले आरक्षकाबलस्य नियोजनं करणीयम् इति।
हिन्दुस्थान समाचार / Dheeraj Maithani