प्रधानमन्त्री-मोदी अद्य बिहारस्य मुख्यमन्त्रि-महिलाव्यवसाययोजनायाः उद्घाटनं करिष्यति
-75 लक्षं महिलाभ्यः साक्षात् 7500 कोटिरूप्यकाणि हस्तान्तरितानि भविष्यन्ति नवदेहली, 26 सितम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 वादने दृश्य-श्रव्य-माध्यमेन बिहारस्य मुख्यमन्त्रिणः महिला-व्यवसाय-योजनायाः श्रीगणेशं करिष्यति। अस्म
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी के कार्यक्रम को एक्स हैंडल पर साझा किया है।


-75 लक्षं महिलाभ्यः साक्षात् 7500 कोटिरूप्यकाणि हस्तान्तरितानि भविष्यन्ति

नवदेहली, 26 सितम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 वादने दृश्य-श्रव्य-माध्यमेन बिहारस्य मुख्यमन्त्रिणः महिला-व्यवसाय-योजनायाः श्रीगणेशं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री बिहारस्य 75 लक्षं महिलाणां वीत्त-कोशेषु साक्षात् 10-10 सहस्ररूप्यकाणि, अर्थात् कुल 7,500 कोटिरूप्यकाणि हस्तान्तरयिष्यति। बिहार-सर्वकारस्य अस्याः योजनायाः उद्देश्यं महिलाः आत्मनिर्भरं कृत्वा स्व-व्यवसाय-जीविकानाम् अवसराणां माध्यमेन महिला-सशक्तिकरणं प्रवर्धयितुम् अस्ति। इयं सूचना आधिकारिक-विज्ञप्तौ दत्ता अस्ति।

विज्ञप्त्यनुसारम्, इयं योजना राज्यस्य प्रत्येकस्य परिवारस्य एकां महिलां वित्तीय-सहायतां प्रदास्यति, ताश्च स्व-इच्छानुसारं व्यवसायं वा जीविका-कार्यकलापान् वा आरब्धुं शक्ष्यन्ति। अनेन आर्थिक-स्वतन्त्रतायाः सामाजिक-सशक्तिकरणस्य च प्रोत्साहनं भविष्यति। अस्याः योजनायाः अन्तर्गतं प्रत्येकं लाभार्थिन्याः कृते साक्षात् लाभ-स्थानान्तरणस्य माध्यमेन 10,000 रूप्यकाणां प्रारम्भिक-अनुदानं प्राप्स्यति, तदनन्तरं चरणेषु 2 लक्षं रूप्यकाणां यावत् अतिरिक्त-वित्तीय-सहायतायाः सम्भावना अस्ति। अस्य सहायता-राशेः उपयोगं लाभार्थिन्यः स्व-इच्छानुसारं क्षेत्रेषु कर्तुं शक्नुवन्ति, यस्मिन् कृषिः, पशुपालनं, हस्तशिल्पं, सीवनं-वयनं, तथा च अन्ये लघु-स्तरीय-उद्यमाः अन्तर्भवन्ति।

इयं योजना समुदाय-प्रेरिता भविष्यति तथा च अस्यां वित्तीय-सहायतया सह, स्वयं-सहायता-समूहैः सह सम्बद्धाः सामुदायिक-संसाधन-व्ययक्तयः अपि तासां प्रयत्नानां समर्थनार्थं प्रशिक्षणं प्रदास्यन्ति। तासां उत्पादनानां विक्रयस्य प्रोत्साहनार्थं, राज्ये ग्राम-हाट-आपणानां च अधिकं विकासः करिष्यते। मुख्यमन्त्री-महिलाव्यवसाययोजनायाः शुभारम्भे राज्ये मण्डलखण्डगुच्छग्राम-इत्यादिषु बहुषु प्रशासनिक-स्तरेषु एकः राज्यव्यापी-कार्यक्रमः भविष्यति। एक-कोटितः अधिकाः महिलाः कार्यक्रमस्य साक्षिण्यः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता