पंजाबः जलप्रलये दिवंगतेभ्यो 59 जनेभ्यो विधानसभायां दत्तश्श्रद्धांजलिः
-पंजाब विधानसभायाः द्वि दिवसीयं विशेषसत्रं शुभारब्धम् चंडीगढ़म्, 26 सितंबरमासः (हि.स.)।पंजाबप्रदेशे जातपूरितबाढ़विषये सरकारेण आहूतस्य पंजाबविधानसभायाः विशेषसमितेः प्रथमदिवसे शुक्रवासरे प्रदेशे बाढ़दुर्घटनायां प्राणान् त्यक्तवन्तः एकोनषष्टिः (५९) जना
पंजाब विधानसभा में दिवंगतों को श्रद्धांजलि भेंट करते विधायक


-पंजाब विधानसभायाः द्वि दिवसीयं विशेषसत्रं शुभारब्धम्

चंडीगढ़म्, 26 सितंबरमासः (हि.स.)।पंजाबप्रदेशे जातपूरितबाढ़विषये सरकारेण आहूतस्य पंजाबविधानसभायाः विशेषसमितेः प्रथमदिवसे शुक्रवासरे प्रदेशे बाढ़दुर्घटनायां प्राणान् त्यक्तवन्तः एकोनषष्टिः (५९) जनाः विधानसभायां श्रद्धांजलिभिः सम्मानिताः।

सदस्यकार्यम् आरभ्यमाणे विधानसभाध्यक्षः कुलतारसिंहः संधवां सर्वप्रथमं गतविधानसभासत्रात् यावत् दिवंगताः जनप्रतिनिधयः, प्रतिष्ठितनागरिकाश्च विधानसभायां श्रद्धांजलिं प्रदत्तवान्।

तत्र विधानसभायां प्रख्यातः पंजाबीचलच्चित्राभिनेत्रा सुप्रसिद्धः हास्यकलाविद् जसविन्दरभल्ला, पंजाबस्य विख्यातसंगीतकारः चरणजीतआहूजा च अपि श्रद्धांजलिभिः सत्कृतौ।

एवमेव विधानसभायां पंजाबस्य पूर्वमन्त्री हरमेलसिंहः टोहडा, पूर्वविधायकः रघुवीरसिंहः, लेफ्टिनेन्ट् कर्नल् शहीद्भानुप्रतापसिंहमन्कोटिया, शहीद्दलजीतसिंहः, शहीद्रिंकूसिंहः, शहीद्प्रीतपालसिंहः, शहीद्सिपाही हरमिन्दरसिंहश्च श्रद्धांजलिभिः सम्मानिताः।

अन्ते सर्वे सदस्यान् द्विमिनिटकालं मौनं स्थित्वा श्रद्धांजलिं अर्पयन्। ततः परं सदनकार्यम् स्थगितम्

अभवत्।

----

हिन्दुस्थान समाचार