वाराणस्याम् “एकात्ममानववादस्य” प्रासंगिकतायाः विषये मन्थनम्
वाराणसी, 26 सितम्बरमासः (हि.स.)। “एकात्ममानववादस्य” प्रणेता पण्डितः दीनदयालोपाध्यायस्य जयन्त्याः अवसरे निमित्तीकृत्य वाराणस्यां काशिहिन्दुविश्वविद्यालयस्य (बीएचयू) सामाजिकविज्ञानसंकायस्थे पण्डितदीनदयालोपाध्यायपीठस्य तत्वावधानेन विशेषव्याख्यानकार्यक्र
कार्यक्रम में कुलपति


वाराणसी, 26 सितम्बरमासः (हि.स.)। “एकात्ममानववादस्य” प्रणेता पण्डितः दीनदयालोपाध्यायस्य जयन्त्याः अवसरे निमित्तीकृत्य वाराणस्यां काशिहिन्दुविश्वविद्यालयस्य (बीएचयू) सामाजिकविज्ञानसंकायस्थे पण्डितदीनदयालोपाध्यायपीठस्य तत्वावधानेन विशेषव्याख्यानकार्यक्रमः शुक्रवारस्य दिवसे आयोजितः। एषः कार्यक्रमः वैदिकविज्ञानकेन्द्रस्य सम्मेलनकक्षे सम्पन्नः, यस्मिन् विश्वविद्यालयस्य प्राध्यापकाः, शोधार्थिनः, छात्रछात्राश्च महान् संख्यया सहभागी अभवन्।

कार्यक्रमस्य अध्यक्षतां वहन् काशीहिन्दुविश्वविद्यालयस्य कुलपतिः प्रोफेसर् अजितकुमारचतुर्वेदी महोदयः अवदत् यत् पण्डितदीनदयालोपाध्यायस्य विचाराः गभीराः, सामाजिकाश्च, जीवनाय नूतनदिशां ददति च। सः बलं दत्तवान् यत् ते विचाराः केवलं आयोजनेषु न स्थेयुः, किन्तु जीवनसारथ्ये आत्मसात्कर्तव्याः।

मुख्यअतिथिरूपेण उपस्थितः विचारकः समाजसेवी च डॉ. वीरेंद्र जायसवाल महोदयः उक्तवान्— “न साम्यवादः, न च पूंजीवादः देशं परिवर्तयितुं शक्नुवन्ति, केवलं अस्माकं संस्कृति: परम्पराश्च एव राष्ट्रस्य उत्थानमार्गं प्रशस्तुं शक्नुवन्ति।” सः ‘एकात्ममानववादस्य’ अद्यतनसामाजिकपरिप्रेक्ष्ये प्रासंगिकतां विस्तारतः विवृणोत।

इतिहासविभागस्य प्रोफेसर् प्रवेशभारद्वाजः अवदत् यत् पण्डितोपाध्यायस्य दर्शनं भारतीयदृष्टिकोणं मानवीयमूल्यानि च आधृत्य निर्मितम्। सः उक्तवान्— “यदि भारतवासी अन्तरिक्षं गच्छेयुः, तत्रापि ते शान्तिं वदन्ति, एषा एव भारतीयसंस्कृतेः आत्मा, एषा च पण्डितस्य विचारशक्ति।”

कार्यक्रमस्य समापने पीठस्य संयोजकः प्रो. तेजप्रतापसिंह महोदयः अवदत्— “पण्डितदीनदयालोपाध्यायपीठं देशस्य प्रथमतमं केन्द्रम् अस्ति, यस्य उद्देश्यः तस्य विचारान् समाजे शिक्षाजगति च प्रसारितुम्।”

कार्यक्रमस्य आरम्भः महामनः पण्डितमदनमोहनमालवीयस्य प्रतिमायां पुष्पाञ्जलिः, दीपप्रज्ज्वलनं, विश्वविद्यालयकुलगीतस्य सामूहिकगायनं च कृत्वा जातः। संचालनं शोधछात्रया कृतित्रिपाठीया कृतम्, स्वागतभाषणं शोधछात्रेण शुभम्मिश्रेण प्रदत्तम्, संयोजनं च डॉ. प्रमोदकुमारगुप्तेन आचरितम्।

हिन्दुस्थान समाचार / Dheeraj Maithani