Enter your Email Address to subscribe to our newsletters
बरेली, 26 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य बरेलीजनपदे शुक्रवासरे जुमा-नमाजोपरान्तं “I Love मोहम्मद” इत्यस्मिन् विवादे महदुपद्रवः अभवत्। यदा पुलिस् बिगडितां स्थितिं नियन्त्रयितुं प्रयत्नं कृतवती, तदा प्रदर्शनकारिणः पाषाणक्षेपं कृतवन्तः। तदा उपद्रविनः वशे स्थापयितुं पुलिसेन लाठिचार्जः कृतः, अश्रुगोलकानपि प्रक्षिप्तवन्तः। एतेषु क्षणेषु पुलिस-अधिकारीणः, जिलाधिकारीणश्च स्वसेनां सह अग्रभागे स्थित्वा कार्यं कृतवन्तः। सावधान्यर्थं सेना तत्र नियोजिता, ड्रोनयन्त्रैः च निग्रहम् आचर्यते। अनेकाः उपद्रविनः चिन्हीकृत्य गिरफ्ताराः अपि।
डी.आइ.जी. अजयकुमारसाहनी इत्यनेन उक्तम् यत् बरेलीस्थे मौलाना तौकीररजायाः आह्वानेन मुस्लिमयुवानः इस्लामिया-मैदानं प्रति गच्छन्तः आसन्, ये “I Love मोहम्मद” इत्यस्य विषयं प्रति प्रशासने ज्ञापनं दातुं इच्छन्तः। ततः पूर्वं कानपुरे 4 सितम्बरदिने बारावफात्पर्वे अनेकाः मुस्लिमयुवानः “I Love मोहम्मद” इत्यस्य पताका-बैनरं स्थापयितुं कारणेन पुलिसेन गिरफ्ताराः आसन्।
एवमेव अस्यैव विषयाय शुक्रवासरे नमाजोपरान्तं विरोधं दर्शयितुं गच्छतः जनान् पुलिसेन रोद्धुं प्रयासः कृतः। किन्तु प्रशासनस्य अनुमत्याः रद्दत्वेऽपि शतशः जनाः मार्गेषु निर्गतवन्तः। खलीलविद्यालयस्य समीपे भीडः पताकाः धृत्वा घोषणाः कुर्वन्ति स्म। तस्मिन् मध्ये कियत् शरारतीजनाः वातावरणं दूषयितुं प्रवृत्ताः। शीघ्रमेव परिस्थितिः उग्रतां गतवती। पुलिसेन रोद्धुं प्रयत्नकाले प्रदर्शनकारिणः पाषाणक्षेपं कृतवन्तः। ततः उपद्रविनः द्वे द्विचक्रिके अपि भञ्जितवन्तः, एका दुकाने च तोडफोडं कृतवन्तः। ततः पुलिसेन पुनः दंडाचारः आचरितः, अश्रुगोलकान् प्रक्षिप्तवन्तः च।
अचानकसम्भूतबवाले आलमगिरीगंज्, बांसमण्डी, बडा-बाजारः, कुतुबखाना, बिहारीपुरञ्च स्थलेषु आपणिकाः स्वशटराणि अपसारयामासुः। मार्गेषु सर्वत्र शिलाखण्डाः, भङ्गिताः पादुकाः, वाहनानां काचखण्डाः च विखण्डिताः दृश्यन्ते स्म। भगदडस्य दृश्यं तावत् आसीत् यत् खलीलतिराहातः बिहारीपुरचौकीपर्यन्तं स्थितिः नियन्त्रणात् निर्गता। मध्ये मध्ये भीडः पुनरागन्तुं प्रयत्नं चकर्ष, किन्तु पुलिसेन दृढतया प्रतिखण्डिताः।एतेषु क्षणेषु जिलाधिकारी अविनाशसिंहः, वरिष्ठपुलिसअधिकारी अनुरागआर्यः, अन्ये च उच्चाधिकारिणः तत्र स्थिता: स्वयमेव मोर्चं धारयामासुः। नगरस्य मार्गेषु गलिषु च विशालः पुलिसबलः तस्थौ। अतिरिक्ता सेना अपि नियोजिता। अधुना अपि क्षेत्रे ड्रोननिग्रहः क्रियते।
जुमा-नमाजदृष्ट्या पूर्वमेव उत्तरप्रदेशपुलिस् सजगावस्था आसीत्। मस्जिद्बाह्ये विशालः पुलिसबलः नियोजितः आसीत्, वाहनानां परीक्षापि प्रचलिता।
अन्यतः, दङ्गस्य आशङ्कया श्यामगंज-कोहाडापीरमार्गेण गच्छन्त्यः रोड्वेज्-बसः स्थगिताः। अफवाः उपद्रवभयञ्च कारणं बाजाराः अपि बंदाः अभवन्। पुलिसः पुनः पुनः घोषयामास यत् “शान्तिं धारयन्तु”। अधिकारीणः स्पष्टं अवदन्—“न कस्यापि अपि स्वहस्तेन विधिं ग्राहयितुं अनुमति: दीयते।”पुलिस-प्रशासनयोः सततचेष्टया स्थितिः नियंत्रणे आगता, किन्तु क्षेत्रे तनावः भयञ्च अधुना अपि विद्यमानम्।
-----------------
हिन्दुस्थान समाचार