सीमारक्षक-बाङ्ग्लादेशस्य सैनिकाः २,८५७ दुर्गापूजा-मण्डपानां सुरक्षा-व्यवस्थायाम् नियोजिताः सन्ति
ढाका, 27 सितंबरमासः (हि.स.)। सीमा-रक्षक-बाङ्ग्लादेशस्य (बीजीबी) प्रायः ४३० दलानि देशे २,८५७ दुर्गापूजा-मण्डपानां सुरक्षानियन्त्रणाय नियुक्तानि सन्ति। बीजीबी इत्यनेन विज्ञप्तौ उक्तं यत् सीमाप्रदेशेषु सहितं देशे सर्वत्र विधिव्यवस्थास्थितेः नियन्त्रणाय
47f9ca5ef1eeb26afc90cb81ed274ff4_1089693957.jpg


ढाका, 27 सितंबरमासः (हि.स.)। सीमा-रक्षक-बाङ्ग्लादेशस्य (बीजीबी) प्रायः ४३० दलानि देशे २,८५७ दुर्गापूजा-मण्डपानां सुरक्षानियन्त्रणाय नियुक्तानि सन्ति। बीजीबी इत्यनेन विज्ञप्तौ उक्तं यत् सीमाप्रदेशेषु सहितं देशे सर्वत्र विधिव्यवस्थास्थितेः नियन्त्रणाय २४ आधारशिबिराणि स्थापितानि।

ढाकाट्रिब्यून पत्रिकायाः वार्तायाम् उक्तं यत् बीजीबी-क्षेत्राधिकार-अन्तर्गतानां २,८५७ पूजामण्डपेषु १,४११ मण्डपाः सीमाप्रदेशेषु, १,४४६ च मण्डपाः सीमाप्रदेश-बहिः स्थिताः। द डेली स्टार पत्रिकायाम् अपि प्रकाशितं यत् हिन्दू-सङ्घटन-नेता उक्तवन्तः—“हिन्दूनां प्रमुखे धार्मिके उत्सवे प्रतिमानां देवालयानां च आक्रमणानि चिन्ताजनकानि”। तैः उक्तं यत् पूजापूर्वकाले एव त्रयोदश-जनपदेषु देवालय-प्रतिमाभङ्ग-घटनाः अभवन्।

मोहननगर-सर्वजनिन-पूजा-समितेः अध्यक्षः जयन्तकुमारदेव गतदिने वार्तासम्मेलने उक्तवान्—

“यदि वयं भेदभावशून्यं बाङ्ग्लादेशं निर्मातुम् इच्छामः, तर्हि केवलं पूजायाः पञ्च-दिनानि न, अपि तु समग्रे वर्षे ३६५-दिनानि सुरक्षायाः चिन्तनं कर्तव्यम्।”

एषा चिन्ता मोहननगर-सर्वजनिन-पूजा-समिति-बाङ्ग्लादेश-पूजा-उद्जापन-परिषदयोः संयुक्तेन ढाकेश्वरीराष्ट्रीयमन्दिरसभागारे आयोजितेन सम्मेलने अभिव्यक्ताभूत। जयन्तेन लिखित-प्रस्तावने उक्तं यत् पूजापूर्वं धार्मिक-जातीय-अल्पसंख्यक-नेतृणां निर्दोषानां च विरुद्धं ये असत्य-निराधार-प्रकरणानि दत्तानि, तानि प्रत्याहर्तव्यानि।

पूजा-उद्जापनपरिषदः अध्यक्षः बासुदेवधर उक्तवान् यत् हिन्दूसमुदायस्य अनेकाः जनाः एषु मनगढ़न्त-प्रकरणेषु पीडिताः जाताः। सः सर्वकारं प्रार्थितवान् यत् ते पूजायाम् सहभागी भवितुं अनुमताः स्युः। परिषदः परामर्शदाता सुब्रतचौधरी उक्तवान् यत् प्रतिमा-मन्दिर-भङ्गकाः नियमानुसारं दण्डनीयाः।

नेतृभिः अपि आग्रहः कृतः यत् पूजाकाले सुचारु-आवागमनाय मेट्रो-रेल् रात्रौ ११-वादनपर्यन्तं उद्घाटिता भवेत्। परिषदः अनुसारम् अस्मिन् वर्षे देशे ३३,३५५ मण्डपेषु पूजा-आयोजनं भवति, यः सङ्ख्या गतवर्षात् १,८९४ अधिका।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता