बीएसएफदलम् अंताराष्ट्रिय सीमातः गृहीतं पाकिस्तानी नागरिकं पुनः प्रेषितवत्
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Consolas;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;} जम्मूः, 27 सितंबरमासः (हि.स.)।ससीमा सुरक्षा बलेन अद्यतनं प्रकाशितम्— अन्ताराष्ट्रियसीमायां गृहीतः प
बीएसएफदलम् अंताराष्ट्रिय सीमातः गृहीतं पाकिस्तानी नागरिकं पुनः प्रेषितवत्


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Consolas;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}

जम्मूः, 27 सितंबरमासः (हि.स.)।ससीमा सुरक्षा बलेन अद्यतनं प्रकाशितम्—

अन्ताराष्ट्रियसीमायां गृहीतः पाकिस्तानी-निवासी एकः पुरुषः पुनः पाकिस्तानं प्रेषितः।

अधिकाऱ्यः शनिवासरे उक्तवन्तः यत् पाकिस्तान-निवासी मोहम्मद अकरम् इति व्यक्तिः २५ सितम्बरदिने जम्मूनगरस्य बाह्यभागे आर्.एस्.पुरा-क्षेत्रात् गृहीतः। सः अनवधानतः भारतसीमाम् अतिक्रम्य प्रविष्टवानिति। गृहीतसमये तस्य आधीने किमपि आपत्तिजनकवस्तु न प्राप्तम्। पृच्छायामपि प्रमाणितं यत् सः केवलं भ्रान्त्या सीमा अतिक्रान्तवान्।

पृच्छानन्तरं बीएसएफ संस्थया तस्य पाकिस्तानी-समानाधिकारीभिः सह सम्पर्कः स्थापितः। आवश्यकाः औपचारिकताः पूर्णीकृत्य शुक्रवारस्य रात्रौ आर्.एस्.पुरा-क्षेत्रे अन्तर्राष्ट्रीयसीमायां ध्वज-सभा आयोजितवती। तत्रैव मोहम्मद अकरम् इति व्यक्तिः चिनाब-रेन्जर्स् इत्यस्मै समर्पितः।

--------------

हिन्दुस्थान समाचार