मध्यप्रदेशमुख्यमंत्री डॉ. मोहनयादवः अद्य विदिशाजिलायाः कुरवाई-प्रदेशे २५८ कोटि-रूप्यक-मूल्यकानां विकासकार्यानां लोकार्पणं शिलान्यासं च करिष्यति
भोपालम्, 27 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे विदिशाजनपदस्य कुरवाई-प्रदेशे २५८.१० कोटि-रूप्यक-व्ययमूल्यानां नानाविकासकार्यानां भूमिपूजनं लोकार्पणं च करिष्यन्ति। सः विविधजनकल्याणयोजनासु हितलाभं वितरिष्यति, प्रब
मुख्यमंत्री डॉ. यादव


भोपालम्, 27 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे विदिशाजनपदस्य कुरवाई-प्रदेशे २५८.१० कोटि-रूप्यक-व्ययमूल्यानां नानाविकासकार्यानां भूमिपूजनं लोकार्पणं च करिष्यन्ति। सः विविधजनकल्याणयोजनासु हितलाभं वितरिष्यति, प्रबुद्धजनैः सामान्यजनैः सह संवादं करिष्यति, कार्यक्रमस्थले संस्थापितानां विभागानां प्रदर्शनीं च अवलोकयिष्यति।

जनसम्पर्काधिकृतः लक्ष्मणसिंहः अवदत् यत् मुख्यमन्त्री डॉ. यादवः विदिशा–कुरवाई–सिरोंज–शमशाबाद–गञ्जबासौदा विधानसभा-प्रदेशेषु ९२.७० कोटि-रूप्यक-व्ययमूल्यानां ४६ निर्माणकार्यानां भूमिपूजनं करिष्यति। तथा १६५.४० कोटि-रूप्यक-व्ययमूल्यानां ३४ निर्माणकार्यानां लोकार्पणं शिलान्यासं च कृत्वा जनसभां सम्बोधयिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता