Enter your Email Address to subscribe to our newsletters
काठमांडूनगरम्, 27 सितंबरमासः (हि.स.)। नेपालस्य पूर्वप्रधानमन्त्री के.पी. शर्मा ओली नामधेयः स्वस्य व्यक्तिगत-सुरक्षां वर्धयितुं देशस्य नूतन-अंतरिमसर्वकारात् याचितवान् तथा देशे युवजनानाम् हिंसात्मक-आन्दोलनेन यः सत्ता-परिवर्तनः जातः, तम् विदेशीय-षड्यन्त्रं इति निर्दिष्टवान्।
ओली महोदयः जेन-जी-नामक-आन्दोलनेन तस्य सर्वकारस्य अपसारणानन्तरं प्रथमवारं सार्वजनिक-प्रतिक्रियायाम् आत्मसुरक्षायाः न्यूनतां प्रति चिन्ताम् व्यक्त्वा सरकारात् सुरक्षा-वृद्धिं याचितवान्। सः उक्तवान्—सर्वकारः अन्यानि सेवासुविधानि यद्यपि न्यूनयेत्, तथापि सुरक्षा-प्रदानं तस्या एव कर्त्तव्यम्।
प्रधानमन्त्रिपदात् अपसारितस्य शनिवासरे प्रथमवारं स्वदलेन आयोजिते सार्वजनिके कार्यक्रमे भाषमाणः ओली महोदयः उक्तवान्—अद्यतनसमये मम गृहं परिवृत्य मां हन्तुम् इति भयं सामाजिक-माध्यमेषु निरन्तरं दृश्यन्ते, तथापि सर्वकारः किमपि न कृतवती।
सः उक्तवान्—अद्यत्वे अहं किरायाय गृह एव वसामि, किन्तु तस्य स्थानं निरिक्ष्यते स्म, तत् सामाजिक-माध्यमेषु प्रकाशितं च जातम्, मम गृहं परिवृत्य मां हन्तुम् इति चर्चाः अपि तत्रैव प्रसृताः।
सः पुनरुक्तवान्—सर्वकारः मम सुरक्षां बलीकुर्यात्, अन्यानि सरकारी-सुविधानि यद्यपि न्यूनयेत्, तथापि सुरक्षां दातव्यम्। सः उक्तवान्—राजनीतिक-दलस्य विकल्पः न स्यात् यः मार्गेषु आन्दोलनेन निर्मितः सरकारः, राजनीतिक-दलस्य एव विकल्पः अन्यः राजनीतिक-दलः भवेत्।
वर्तमानसर्वकारं प्रदर्शनहत्याहिंसा-अग्निपातबलात् निर्मितां निर्दिश्य ओली महोदयः उक्तवान्—जनमताधिकारात् निर्मितं सर्व अपसार्य अयं सर्वकारः जातः। सः नेपालदेशे समये एव निर्वाचनानि सिध्यिष्यन्ति वा इति विषये सन्देहं व्यक्तवान्।
सः उक्तवान्—विदेशीयषड्यन्त्रस्य अधीनं देशं हिंसायाः ज्वलनं प्रति नीत्वा अयं सरकारः निर्मितः, अतः तस्याः उद्देश्यं निर्वाचनसम्पादनं नास्ति। केवलं मां सत्ता-स्थानात् अपसारयितुं विदेशीय-षड्यन्त्रं कृतमिति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता