Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 27 सितंबरमासः (हि.स.)।
केंद्रीयसर्वकारस्य मार्ग-परिवहन तथा राष्ट्रियमार्गमन्त्रिणः नितिन गडकरी उक्तवन्तः यत् वर्तमानकाले अरण्यस्य केवलं 20 प्रतिशतं पर्यटनार्थं खुलितम् अस्ति, शेषं 80 प्रतिशतं वन्यप्रदेशः सुरक्षितः धार्यते। यदि वन्यजीवनं हानिं न कृत्वा अरण्यस्य अधिकं भागं पर्यटनार्थं उद्घाट्यते, तर्हि स्थानिक आदिवासिनां विकासः उन्नतिः च अधिकं प्रवर्तिष्यते।
गडकरी शनिवासरे नवदिल्ल्यां आयोजिते वन्यजीव-छायाचित्र-प्रदर्शने उद्घाटनसमारे उक्तवन्तः यत् नागपुरसहितस्य आसपासस्य अरण्यस्य संरक्षणम् अतीव महत्वपूर्णम् अस्ति। नागपुरात् जबलपुरराष्ट्रीयमार्गे व्याघ्र-रक्षणाय विशेषाः संरचनाः निर्मिताः सन्ति, यत्र मार्गः अधस्तात् च अरण्यं उपरि इत्यादि व्यवस्थाः सन्ति, यथा वन्यजीवनं मार्गयात्रया च संतुलितं भवेत्।
तेन उक्तं यत् राजस्थान-महाराष्ट्रयोः अरण्येषु पर्यटन-अवसराणां विस्तारः कृतः, तथा स्थानिक आदिवासी युवायाम् अपि जीविका प्रदत्ता। पर्यटनक्षेत्रे इलेक्ट्रिक-यानानां उपयोगः वृद्धिं प्राप्तवान्, प्रदूषणं च ध्वनिनियन्त्रणार्थं सर्वोच्चन्यायालय-समितेः निर्देशाः प्रकाशिताः।
मन्त्री उक्तवन्तः यत् महाराष्ट्रस्य लगभग 80 प्रतिशतं वन्यप्रदेशः विदर्भे स्थितम्। तेषां संसदीय क्षेत्रं “व्याघ्रराजधानी” इत्यनेन प्रसिद्धम् अस्ति। अस्य क्षेत्रस्य वन्यजीवन-रक्षणे तथा स्थानिक-जीविकासृजने च सम-ध्यानं प्रदत्तं वर्तते।
---------------
हिन्दुस्थान समाचार