प्रधानमन्त्री मोदी अद्य ओडिशाराज्यस्य झारसुगुडाप्रदेशे षष्टि सहस्रं कोट्याधिकानां योजनानाम् उपहारं दास्यन्ति
नवदेहली, 27 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य ओडिशाराज्ये प्रवासे भविष्यन्ति। ते झारसुगुडा-नगर्यां प्रातः ११.३० वादने षष्टि सहस्रं कोट्याधिकानां-व्ययमूल्यानि बहूनि विकासप्रकल्पानां शिलान्यासं कर्तुं उद्घाटनं च करिष्यन्ति। एते प्रकल
प्रधानमंत्री नरेन्द्र मोदी।


नवदेहली, 27 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य ओडिशाराज्ये प्रवासे भविष्यन्ति। ते झारसुगुडा-नगर्यां प्रातः ११.३० वादने षष्टि सहस्रं कोट्याधिकानां-व्ययमूल्यानि बहूनि विकासप्रकल्पानां शिलान्यासं कर्तुं उद्घाटनं च करिष्यन्ति। एते प्रकल्पाः दूरसंचारं, रेलयानमार्गं, उच्चशिक्षां, आरोग्यसेवां, कौशलविकासं, ग्राम्यवासगृहाणि च सम्बध्यन्ते। अस्मिन् अवसरे प्रधानमन्त्री मोदी जनसभामपि सम्बोधयिष्यन्ति।

सरकारस्य प्रवक्ता अवदत् यत् प्रधानमन्त्री मोदी डिजिटल-संपर्कवृद्ध्यर्थं स्वदेशी-प्रौद्योगिक्याः साहाय्येन निर्मितानां सप्तत्रिंशत्सहस्रं करोड़-मूल्यानां ९७,५००ाधिकानां मोबाइल ४-जी-स्तम्भानाम् उद्घाटनं करिष्यन्ति। एतेषु भारत-संचार-निगमेन (बीएसएनएल) सञ्चालितानि ९२,६००ाधिकानि ४-जी-प्रौद्योगिकी-स्थलानि अन्तर्भवन्ति। डिजिटल-भारत-निधेः अन्तर्गतं १८,९००ाधिकानि ४-जी-स्थलानि वित्तपोषितानि, येन सुदूरप्रदेशाः, सीमान्तप्रदेशाः, वामपन्थी-उग्रवादप्रभावितप्रदेशाः च मिलित्वा २६,७००-असंबद्धग्रामाः संयोज्यन्ते, यस्य फलस्वरूपं २०-लक्षाधिकाः नूतनग्राहकाः सेवां प्राप्स्यन्ति।

एतस्मिन् विषये ह्यः केन्द्रीय-संचारमन्त्री ज्योतिरादित्यः सिंधिया पत्रकारसमागमे जानकारीं दत्तवान्। सः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी भारत-संचार-निगमस्य देशव्यापिनं स्वदेशी-निर्मितं ४-जी (५-जी-सज्जम्) जालं प्रारम्भयिष्यन्ति। एषः भारतस्य दूरसंचार-क्षेत्रे नूतनस्य युगस्य आरम्भः भविष्यति। भारतं जगतः प्रमुख-दूरसंचार-उपकरण-निर्मातॄणां वर्गे योजितम्। तेन उक्तं यत् एते ४-जी-स्तम्भाः देशव्यापि २२-मिलियनग्राहकेभ्यः सेवां ददति।

केन्द्रीय-मन्त्री सिंधिया अवदत् यत् प्रधानमन्त्री मोदी अस्मिन् अवसरे द्वे प्रमुखे उपक्रमे आरभ्य करिष्यन्ति। प्रथमः देशव्यापि प्रायेण ९८-सहस्रं मोबाइल ४-जी-स्तम्भानाम् प्रसारणम्, द्वितीयः पूर्णतः स्वदेशी-निर्मितः ४-जी-जालः, यः सॉफ्टवेयर-आधारितः, मेघाधारितः, भविष्ये ५-जी-प्रयुक्तये सज्जः च। तेन उक्तं यत् भारतस्य कश्चन भागः अपि अस्मात् जालात् वियुक्तः न भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता