वित्तमन्त्री श्रीमतीनिर्मलासीतारमण तृतीयं अक्टोबरदिनाङ्के कौटिल्य आर्थिकसम्मेलनस्य उद्घाटनं करिष्यति
नवदेहली, 27 सितंबरमासः (हि.स)। केंद्रीयवित्त-एवं-कॉर्पोरेट-मामलानामंत्री श्रीमती निर्मला सीतारमण तृतीयं अक्टोबर् दिने नईदिल्लीस्थे ताज-पैलेसि आयोज्यमाने त्रिदिनस्य कौटिल्य-आर्थिक-सम्मेलनस्य (केईसी 2025) चतुर्थं संस्करणं उद्घाटयिष्यन्ति। वित्तमन्त्रा
वित्‍त मंत्री निर्मला सीतारमण का फाइल फोटो


नवदेहली, 27 सितंबरमासः (हि.स)। केंद्रीयवित्त-एवं-कॉर्पोरेट-मामलानामंत्री श्रीमती निर्मला सीतारमण तृतीयं अक्टोबर् दिने नईदिल्लीस्थे ताज-पैलेसि आयोज्यमाने त्रिदिनस्य कौटिल्य-आर्थिक-सम्मेलनस्य (केईसी 2025) चतुर्थं संस्करणं उद्घाटयिष्यन्ति।

वित्तमन्त्रालयस्य शनिवासरे प्रदत्तवाक्यानुसार, सीतारमण ‘अशान्तस्मिन्काले समृद्धेः अन्वेषणम्’ इति विषयं धारयित्वा 3-5 अक्टोबरपर्यन्तं आयोज्यमाने चतुर्थे कौटिल्य-आर्थिकसम्मेलनस्य उद्घाटनं करिष्यति। विदेशमन्त्री डॉ. एस्. जयशंकर पञ्चमे अक्टोबर् दिनाङ्के भारतस्य विदेश-आर्थिकनीतिषु विचारविमर्शेनैव सम्मेलनं समापयिष्यन्ति।

मन्त्रालयस्य सूचना अनुसारेण केंद्रीय-सञ्चारमन्त्री ज्योतिरादित्यसिन्धियाः ‘सञ्चारः: उदयोन्मुखा प्रौद्योगिकयः’ इत्यस्मिन् विषयसत्रे अध्यक्षता करिष्यन्ति। विशेष-लञ्च-सत्रेषु अपि ‘सञ्चारः: उदयोन्मुखा प्रौद्योगिकयः’ इत्यस्मिन् अग्रगामिनि चर्चासत्रे कृत्रिमबुद्धि (ए.आई.) तथा डिजीटल् आधारसंरचनायाः प्रमुखविशेषज्ञाः सहभागित्वं करिष्यन्ति।

केईसी 2025 समागमः 3-5 अक्टोबरपर्यन्तं नईदिल्ली ताज-पैलेस इत्यत्र आयोज्यते। सम्मेलनस्य समापनं वैश्विक-सामूहिक-आर्थिकबुद्धिमत्तायाः उच्चस्तरीयपूर्ण-सत्रे भविष्यति, यस्य अध्यक्षता प्रधानमन्त्रीस्य प्रधानसचिवः डॉ. पी. के. मिश्रा करिष्यन्ति। अत्र वरिष्ठनीतिनिर्माता-अर्थशास्त्रज्ञाश्च विश्व-अर्थव्यवस्थायाः स्थिति तथा वित्तीय-प्रशासनस्य आवश्यकपरिष्काराणां मूल्याङ्कनाय सम्मिलन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता