बंगालस्य खाड़्यां निर्मितेन कारणेन दक्षिण छत्तीसगढे महद्बावृष्टेः संभावना
रायपुरम्, 27 सितंबरमासः (हि.स.)।वातावरण-विभागेन उक्तं यत् बंगाल-खाड्यां जातेन मौसम-तन्त्रेण दक्षिण-छत्तीसगढे महती वर्षा सम्भाव्यते। तेन बस्तर-सम्भागः तद्वश्च जिलाः प्रभाविताः भविष्यन्ति। अस्मिन् प्रदेशे अद्य श्वश्च महती अतिमहती च वर्षा सम्भाव्यते। व
दक्षिण छत्तीसगढ़ में भारी बारिश की संभावना


रायपुरम्, 27 सितंबरमासः (हि.स.)।वातावरण-विभागेन उक्तं यत् बंगाल-खाड्यां जातेन मौसम-तन्त्रेण दक्षिण-छत्तीसगढे महती वर्षा सम्भाव्यते। तेन बस्तर-सम्भागः तद्वश्च जिलाः प्रभाविताः भविष्यन्ति। अस्मिन् प्रदेशे अद्य श्वश्च महती अतिमहती च वर्षा सम्भाव्यते।

वातावरण-विभागेन बीजापुर-दक्षिण-बस्तर-दन्तेवाडा-बस्तर-नारायणपुर-कोंडागांव-उत्तर-बस्तर-कांकेर-प्रदेशेषु मेघगर्जनम्, आकाशीय-विद्युतः, आकस्मिकं तीव्रं वातचलनं च सहिता वर्षा भविष्यतीति सम्भावना प्रकटिता।

उत्तर-पश्चिम-मध्य-बंगाल-खाड्यां च सन्निहिते प्रदेशे च सक्रियेण ऊपरी-वायु-चक्रवात-परिसंचरणेन निम्न-दबाव-क्षेत्रेण च छत्तीसगढे वातावरणं विकृतं जातम्। दक्षिण-छत्तीसगढे आगामी-चतुर्विंशतिघण्टिकापर्यन्तं महती वर्षा सम्भाव्यते।

वातावरण-विभागेन राज्यस्य अनेक-जिलेषु आगामी-त्रिघण्टिकायाः कृते ऑरेञ्ज्-सूचना (Orange Alert) प्रदत्ता। बीजापुरे गतचतुर्विंशतिघण्टिकेषु 56.0 मिमी वर्षा अभिलेखिता।

विभागस्य सूचनानुसारं रायपुर-बलौदाबाजार-धमतरी-गरियाबंद-महासमुन्द-दुर्ग- बालोद-बेमेत्रा-राजनांदगांव-कबीरधाम-खैरागढ-छुईखदान-गंडई-मोहला-मानपुर-अम्बागढचौकी- रायगढ-सारंगढ-बिलाइगढ-बस्तर-कोंडागांव-कांकेर-प्रदेशेषु लघ्वः महती वा वर्षा भविष्यति। एतेषु सर्वेषु जिलेषु ऑरेञ्ज्-सूचना दत्ता। तस्मिन्नेव काले गर्जन-चमकस्य अपि आशङ्का व्यक्ता।

छत्तीसगढे गतचतुर्विंशतिघण्टिकेषु सर्वेषु सम्भागेषु कतिपय-स्थानेषु लघु-मध्यम-वर्षा जाताऽस्ति। सर्वाधिक-वृष्टिः बीजापुरे 56 मिमी अभिलेखिता।

सर्वाधिक-तापमानं दुर्गे 34.5 डिग्री-सेल्सियस् अभिलेखितम्। रायपुरे अद्य प्रातः लघु-वृष्टिः जाता। दन्तेवाडा-बडे-बचेळी-गीदम-प्रदेशेषु 5 सेमी-वृष्टिः, भोपालपटनम्-बास्तानार-अम्बागढचौकी-प्रदेशेषु 4 सेमी-वृष्टिः अभिलेखिता। गंगालूर-पालि-प्रदेशयोः 3 सेमी-वृष्टिः, बडे-राजपुर-पखांजूर-रत्नपुर-बारसूर-दरभा-दोरनापाल-पटन-अजगरबहार-कुमर्दा-भैरमगढ-प्रदेशेषु 2 सेमी-वृष्टिः

अभिलेखिता।

हिन्दुस्थान समाचार