Enter your Email Address to subscribe to our newsletters
शाहरुख्-खानस्य पुत्रः आर्यन्-खानः यदा ‘द बैड्स् ऑफ् बॉलीवुड्’ इति प्रथम-वेब्-श्रृङ्खलां प्रकाशितवान्, तदा तत्क्षणमेव सा जनानां जिह्वासु व्याप्य अत्यधिकं प्रशंसिता आसीत्। प्रथम-शृङ्खलायामेव आर्यने उद्योगे दृढं स्व-परिचयं स्थापयामास। अधुना तस्य पथेनान्यः अपि एकः स्टार्-किड् प्रविष्टुं सज्जः अस्ति, यस्य जनकौ दक्षिण-भारतीय-उद्योगस्य महानामनी स्तः। सूर्या–ज्योतिकयोः कन्या दीया निर्देशन-क्षेत्रे प्रवेशं कृतवती।
केवलं सप्तदशवर्षीयायाः दीयायाः कृते एषः चलचित्र-प्रवासः माता–पितृपरम्परायाः अनुवर्तनरूपः। सा न अभिनयमार्गं वरणीति, किन्तु आर्यन्-खानस्य इव चित्रग्रहणयन्त्रस्यान्तःस्थित्वा स्व-प्रातिभं दर्शयितुं मार्गं चिनुतवती। दीया स्व-परिवारिक-फलक ‘२डी एण्टरटेन्मेण्ट्’ अन्तर्गतं निर्मितया डॉक्यू–ड्रामा–लघु-चलच्चित्रेण ‘लीडिङ्ग् लाइट्’ इत्यनेन निर्देशन-क्षेत्रे पदार्पणं कृतवती। अस्मिन् विशेष-अवसरे सूर्या–ज्योतिकौ सामाजिकमध्यमे अपि पत्रप्रेषण प्रकाशित्य स्वकन्यां प्रति अनेकाः शुभाशंसाः दत्तवन्तौ।
लीडिङ्ग् लाइट्’ अधुना लॉस्-एञ्जलस्-नगरे रीजेन्सी-थिएटर्-नाम्नि ऑस्कर्-क्वालिफाइङ्ग्-रन् अन्तर्गतं प्रदर्श्यते, यत् दीयायाः कर्ममार्गस्य उत्कृष्टः प्रारम्भः इति मन्यते। एषः चित्रः तासां नारीणां जीवनं संघर्षं च प्रकटयति, याः बॉलीवुड्-उद्योगे फलकस्य पृष्ठतः लाइटिङ्ग्-कार्यं यथाविधि कुर्वन्ति, किन्तु याः प्रायः अविश्रुताः भवन्ति। तासां कथाः विरलमेव दर्शकेभ्यः प्राप्यन्ते। एवं संवेदनशीलं विचित्रं च विषयं वरण्य पदार्पणं कर्तुं दीयायाः साहसम् दूरदृष्टिः च द्योत्यते। एषा लघु-चलच्चित्रः २६ सितम्बर-तिथेः आरभ्य २ अक्टूबर-तिथिपर्यन्तं प्रतिदिनं रीजेन्सी-थिएटर्-मञ्चे प्रदर्श्यते। स्व-अनन्य-दृष्टिकोणेन प्रबलेन च नैरेटिव्-शैलीना ‘लीडिङ्ग् लाइट्’ केवलं दर्शकाणां न, अपि तु समीक्षकानाम् अपि ध्यानं आकर्षयति। अस्य चलचित्रस्य निर्माणं सूर्या–ज्योतिकाभ्यां कृतम्। घोषणां कुर्वन्तौ तौ अवदताम्— “अस्माकं पुत्र्या दीया-सूर्या-निर्देशितस्य अस्य डॉक्यू–ड्रामा ‘लीडिङ्ग् लाइट्’ इत्यस्य समर्थनं कृत्वा वयं गर्वितौ स्मः।”
सूर्या–ज्योतिकौ तमिळ्-चलच्चित्र-क्षेत्रस्य अतीव लोकप्रियौ प्रसिद्ध-दम्पत्यौ मन्येते। उभौ २००६ तमे वर्षे विवाहं कृतवन्तौ। अद्य तौ द्वयोः अपत्ययोः जनकौ स्तः। ज्येष्ठायाः पुत्र्याः नाम दीया, कनिष्ठपुत्रस्य नाम देव इति। व्यस्तेऽपि चलचित्र-कार्यक्रमे सूर्या–ज्योतिकौ परिवार-संयोगाय विशेषं ध्यानं दत्तवन्तौ। पूर्वं तौ चेन्नै-नगरे निवसन्तौ आसताम्, किन्तु अपत्ययोः शिक्षायाः कृते कतिपय-वर्षाणि पूर्वं तौ मुम्बई-नगरं प्रति स्थानान्तरणं कर्तुं निर्णयं कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता