ब्रिटिश-कालीन-विद्यालये विद्यासागरस्य गुरुदेव-रवीन्द्रनाथस्य च प्रतिमाः संस्थापिताः
पश्चिममिदनापुरम्, 27 सितम्बरमासः (हि.स.)। पश्चिममेदिनीपुरजनपदे केशीयारीप्रदेशे स्वातन्त्र्यपूर्वे 1944 तमे वर्षे ब्रिटिशशासनकाले शिक्षा-प्रसारार्थं संस्थापिते फाण्डाड् जे.एन.यू. प्राथमिकविद्यालये द्वयोः महात्मनोः प्रतिमाः संस्थापिताः। विद्यालय-प्राङ्
Vidyasagar-Tagore-statues


JNU प्राथमिक विद्यालय


पश्चिममिदनापुरम्, 27 सितम्बरमासः (हि.स.)। पश्चिममेदिनीपुरजनपदे केशीयारीप्रदेशे स्वातन्त्र्यपूर्वे 1944 तमे वर्षे ब्रिटिशशासनकाले शिक्षा-प्रसारार्थं संस्थापिते फाण्डाड् जे.एन.यू. प्राथमिकविद्यालये द्वयोः महात्मनोः प्रतिमाः संस्थापिताः। विद्यालय-प्राङ्गणे पण्डित-ईश्वरचन्द्र-विद्यासागरस्य कविगुरोः रवीन्द्रनाथ-ठाकुरस्य च आवक्ष-प्रतिमयोः अनावरणं कृतम्।

समारेहे फाण्डाड्-गदाधर-विद्यापीठस्य सेवानिवृत्त-शिक्षकः भानुकुमारदे इत्यस्मै विद्यासागरप्रतिमा विद्यालयाय दत्ता। विद्यालयेन तु कविगुरोः रवीन्द्रनाथस्य प्रतिमा संस्थापिता।

अस्मिन् अवसरे केशीयारी-क्षेत्राधिकारिणः (बीडीओ) हितांशु हालदार, वैद्यः अंशुमान मिश्रः, विद्यालय-प्रधानाध्यापिका सीताहेम्ब्रम, शिक्षकः प्रवीरकुमार-भट्टाचार्य, शिक्षिका वन्दना साउ, रासबिहारीदास इत्यादयः उपस्थिताः।

शिक्षकः प्रवीरकुमार-भट्टाचार्य इत्यनेन उक्तं यत्—“चिरकालात् विद्यालये उभयोः महापुरुषयोः प्रतिमाः संस्थापयितुं आकाङ्क्षा आसीत्, अद्य स एव स्वप्नः साकारः जातः।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता