युवानः रोजगार- अन्वेषकाः न, रोजगारदातारः भवेयुः - डॉ. रवि भूषणः।
पानीपतम्, 27 सितंबरमासः (हि.स.)। विश्वपर्यटनदिने आर्यमहाविद्यालयस्य पर्यटनविभागेन प्रश्नोत्तरी, वादविवादः, रंगोली तथा पारम्परिकवस्त्रप्रदर्शनप्रतियोगिताः आयोजिताः। अस्यां स्पर्धायां महाविद्यालयस्य सर्वेषु संकायेषु अध्ययनरताः विद्यार्थी भागं गृहीतवन्त
विश्व पर्यटन दिवस पर आर्य कॉलेज में विजेताओं को पुरस्कृत करते मुख्य अतिथि प्रो, डॉ रवि भूषण


पानीपतम्, 27 सितंबरमासः (हि.स.)। विश्वपर्यटनदिने आर्यमहाविद्यालयस्य पर्यटनविभागेन प्रश्नोत्तरी, वादविवादः, रंगोली तथा पारम्परिकवस्त्रप्रदर्शनप्रतियोगिताः आयोजिताः। अस्यां स्पर्धायां महाविद्यालयस्य सर्वेषु संकायेषु अध्ययनरताः विद्यार्थी भागं गृहीतवन्तः।

अस्मिन् अवसरे मुख्यातिथिरूपेण कुरुक्षेत्रविश्वविद्यालयस्य पर्यटनविभागस्य पूर्वनिदेशकः प्रो. डॉ. रविभूषणः उपस्थितवान्। तेन उक्तम् — “विश्वपर्यटनदिवसः प्रतिवर्षं सप्तम्बरमासस्य सप्तविंशे दिने आचर्यते। अस्य दिनस्य मुख्यं ध्येयम् अस्ति पर्यटनस्य सामाजिक-सांस्कृतिक-राजनीतिक-आर्थिकमहत्त्वस्य विषये जनानां जागरूकता संवर्धयितुम्। एवं च पर्यटनं तादृशं साधनं यत् भिन्न-संस्कृतिभ्यः जनान् एकत्र बन्धयितुं शक्यते।”

असौ अपि अवदत् यत् भारतस्य जनाः स्वभावतः भ्रमणप्रियाः सन्ति, ते च स्वस्य शौकमेव रोजगारस्य साधनं कर्तुं समर्थाः।

महाविद्यालयस्य प्राचार्यः डॉ. जगदीशगुप्तः उक्तवान् — “प्रतिवर्षं विश्वपर्यटनदिवसस्य विशेषं विषयं निर्धार्यते। संवत्सरे 2025 विषयः ‘पर्यटनं सततपरिवर्तनं च’ इत्यस्ति, यस्य मुख्योद्देशः रोजगारस्य अवसरवृद्धिः।”

प्रतियोगितासु विद्यार्थिनां मनोहरप्रस्तुतयः सर्वेषां हृदयानि आह्लादयामासुः। विशेषतः पारम्परिकवस्त्रप्रदर्शनायां विद्यार्थिभिः विविधानि वसनानि धार्य पादयात्रा प्रदर्शिता।

अन्ते प्राचार्येण उक्तं — “एवंप्रकाराः स्पर्धाः न केवलं विद्यार्थिभ्यः अन्तर्निहितप्रतिभाप्रदर्शनाय अवसरं यच्छन्ति, अपि तु नूतनज्ञानप्राप्तेः अपि साधनं भवन्ति।”

अस्मिन्नवसरे डॉ. विजयसिंह, उपाध्यापिका अदितिमित्तल, प्रीति शर्मा, नवीनः, साहिलः च महाविद्यालयकर्मचारिभिः सह उपस्थिताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता