Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 27 सितंबरमासः (हि.स.)।
पर्यटनमन्त्रालयेन शनिवासरे विश्वपर्यटनदिवसस्य अवसरात् “पर्यटनं सततपरिवर्तनं च” इत्यस्मिन् विषये विचारगोष्ठी आयोजिता। सुषमा स्वराज भवननाम्नि स्थले उद्योगक्षेत्रस्य, शिक्षाजगतः, नागरकसमाजस्य च प्रतिनिधयः एकत्र समागत्य सांस्कृतिकपरस्परविनिमयं, आर्थिकविकासं, पर्यटनक्षेत्रे सततआचारप्रवर्तनं च विषये भारतस्य दृढप्रतिज्ञां पुनरुक्तवन्तः।
अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः नीति-आयोगस्य उपाध्यक्षः सुमन-बेरी इत्यख्यः स्वसन्देशे अवदत् — “पर्यटनं केवलं अवकाशविहारस्य साधनं न, किन्तु आर्थिकपरिवर्तनस्य, पर्यावरणसंरक्षणस्य, सामाजिकसमावेशनस्य च बलवत्तरं साधनं भवति। भारतस्य पर्यटनक्षेत्रे अपरिमिता संभावनाः सन्ति, यदा सततविकासरणनीतिः मुख्याधारः भवति। उत्तमा सम्पर्कव्यवस्था (मार्ग, रेल, विमान, जलमार्ग) तथा सार्वजनिक-निजी सहयोगः आवश्यकः अस्ति।”
अस्मिन् अवसरे पर्यटनराज्यमन्त्री सुरेश-गोपी इत्यख्यः अवदत् — “स्वदेशदर्शनं २.०, प्रसादयोजना च यथा कार्यक्रमाः सततपर्यटनं ग्राम्यपर्यटनं च प्रवर्द्धयन्ति।
विमानपत्तनेषु, राजमार्गेषु, रेलमार्गेषु, जलमार्गेषु च निवेशेन यात्रिकेभ्यः निर्बाधयात्रानुभवः उपलब्धः भवति। उड़ान-योजना, लास्ट-माइल सम्पर्कव्यवस्था च पर्यटनस्थलेषु गमनं सुगमं करोति।”
अस्मिन् अवसरे पर्यटनमन्त्रालयेन अनेके सहमति-सन्धयः कृता। भारतीयपर्यटनस्थलान् सिनेमात्मककथानकानां माध्यमेन वैश्विकस्तरे प्रचारयितुं नेफ्लिक्स् इत्यनेन सह करारः कृतः।
अतिथि-फाउण्डेशन प्रमुखाः ऑनलाइन-पर्यटनसंस्थाः च अनुसंधानाय, नवोन्मेषाय, दत्ताधारित-नीतिनिर्माणाय च सहकार्यं कृतवन्तः।
एवमेव 66तमं भारतीयपर्यटनसांख्यिकसङ्कलनं प्रकाशितं, यस्मिन् अन्ताराष्ट्रिय-देशीयं आगमनं, रोजगारसृष्टिः, आर्थिकयोगदानं च विषयेषु अभूतपूर्ववृद्धिः निर्दिष्टा।
अस्मिन् समये “मुद्रा-ऋण-गाइड् फॉर होमस्टे” इत्याख्या पुस्तिका अपि प्रकाशिताभूत्, यत्र जनसमर्थ-पोर्टल् इत्यस्मात् माध्यमेन ऋणप्रार्थनायाः क्रमिकनिर्देशाः दत्ताः।
--
हिन्दुस्थान समाचार