Enter your Email Address to subscribe to our newsletters
लखनऊ, 28 सितम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यपालाः आनंदीबेनः पटेलः प्रेरणा मार्गदर्शनयोः अन्तर्गतं स्वच्छतासेवा पक्षस्य अवसरे रविवासरे राजभवने स्वयं सहायता समूहानां विविधानां उत्पादनानां प्रदर्शनी आयोजिता।प्रदर्शनीमध्ये विभिन्नैः स्वयं सहायता समूहैः निर्मितानि हस्तशिल्प उत्पादनानि, अगरबत्ती, कैंडल सहितं अनेके दैनन्दिनोपयोगी सामग्री च प्रदर्शिता।राजभवने अधिकारिणां कर्मकरश्च प्रदर्शनीं गत्वा एतानि उत्पादनानि निरीक्ष्य उत्साहपूर्वकं क्रयित्वा उत्पादकानां मनोबलं वर्धयामासुः।अस्मिन अवसरि सर्वेभ्यः अपि संदेशः प्रदत्तः – स्थानिकानां स्वदेशी च उत्पादनानां प्रोत्साहनं कृत्वा आत्मनिर्भरभारतेः परिकल्पनां साकारयितुं शक्यते।
हिन्दुस्थान समाचार